पृष्ठम्:शब्दापशब्दविवेकः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९० शब्दापशब्दबिवेके


१५३ पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्याम् (नारा० ८१।१) । १५४. परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् (नारा० ७३३) १५५. व्यजनि च समरः सप्तविंशत्यहान्तम् (नारा०८६।१) १५६. द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् (नारा० ५६।५)। १५३. प्रास्थित: स्थित इत्यर्थः । तेनाङ् सर्वथाऽस्थाने । आङ्पूर्वस्ति- ष्ठतिः प्रतिज्ञाने समाश्रयणे वा वर्तते १५४. व्यमुच इति व्यस्राक्षीरित्यर्थे प्रयुक्तम् । केवलो वा मुचिर्विपूर्वो वा विसर्जनं प्रहयणं नाह । व्यवहारश्च नावहेल्यः । १५५. विपूर्वो जनिर्गर्भविमोचने प्रसवे प्रादुर्भावे वा रूढः । अत्र तु नासावर्थो विवक्षित इति वि: परिहार्यः । १५६. अत्राप्युक्तपूर्वो दोषः । उक्तश्च तत्परीहारः । इत्युपसर्गविवेचनम् ।