उपसर्गाधिकारः १८९
१४५. पीयूषं परिमथतेति पर्यशास्त्वम् (नारा० २७।३) ।
१४६. तां गर्भिणीमभ्यहासी: (नारा० ३५।८) ।
१४७. सन्निशम्य जननी समाद्रुता (नारा० ४७।४) ।
१४८. तावद् वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते (नारा०
३५८) ।
१४९. राज्यं नवं बालमिवार्कमेव मरुत्सुतीभूय परोऽगलिष्यत्
(तुलसी० १।१२) ।
१५०. हर्षबाष्यं व्यामुञ्चन्त्यः (गावः) (नारा० ५४।८) ।
१५१. सकलभुवनभाजां हर्षदां वर्षवेलां
क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः (नारा० (५८।८) ।
१५२. मूर्तिमेष बृहतीं प्रदधानः (नारा० ७०।७) ।
- ।
१४५ उभयत्र परि व्यवहारं नानुवर्तते । मथिः प्रायेण नि:पूर्व उत्पूर्वो वा प्रयोगमवतरन्दृष्टः, शासिश्च प्रपूर्वोऽनुपूर्वो वा । व्यवहारोऽनु- वृत्त्यः । १४६. अभ्यहासीरित्यत्राभेरव्यवहार्यतां विदन्नपि कविप्रवेकश्छन्दः- परवशः प्रायुङ्क्तेति जाने । व्यतिप्रादय: प्रायेण जहातिना योगं लभन्ते । न हि यः कश्चिदुपसर्गो येन केनापि धातुना शक्यो योक्तुम् । १४७. समाद्रुता सत्वरमागता । अत्र साहचर्यं न विवक्षितमिति समा नार्थः १४८. उपासूत । न ह्युपस्य सूतिना योगः क्वचिदन्यत्र दृश्यते । मन्येऽत्रापि छन्दोवशग एव उपोपसर्गं युनक्ति । १४९. अत्र न्यगलिष्यदिति साधीयः स्यात् । अन्तरेण नि गलाधोनयन- मर्थो न स्फुटति । धातुपाठेपि प्रसिद्धिमनुरुध्य ग निगरण इति पठितम् । १५०. आङ्पूर्वो मुचिबन्धने रूढः । विरपि विशेषकन्न । तेनोपसर्ग- द्वयमपि हेयम् । प्रकर्षश्चेद्विवक्षितः, प्रशब्दः प्रयोक्तव्यः । १५१. कालक्षेपणे केवलो नयति: प्रयोगमवतरन्दृष्टः, न तु विपूर्वः । विपूर्वस्तु शिक्षणेऽपनोदने विगमने वा दृष्ट: । १५२. प्रधानं प्रकृतिरित्यत्रार्थवानपि प्रशब्दोऽत्रानर्थकोऽव्यवहृतचरश्च ।