१८६ शब्दापशब्दविवेके
१३८. ततः कथं कथमप्यहं श्रीनगरं यावत् पर्यचलम् ।
१३९. विवृत्तपाणिविहतोत्तरार्थं विभीषणोऽभाषत यातुधानम् (भट्टि०
१२।२१)
१४०. मृजन्ति तुन्दं सततं महाशनाः ।
१४१. वरं समूलनाशोऽस्मत्कुलस्य, न पुनर्म्लेच्छेनाभिसन्धिः ।
१४२. मान्तरा निर्बधान तमालापेन ।
१४३. कामशरानुविद्धहृदयः (करुणा० १०) ।
१४४. तेन भक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः
(नारा० ४।४)।
१३८. अचलमित्येव वक्तव्यम् । परिः सर्वतोभावे वर्तते स च नेह
विवक्षितः ।
१३९. विवृत्तपाणिरित्यस्य तदभिमुखीकृतहस्त इत्यर्थं विवक्षति ।
विशब्दसहकारेण वृतु वर्तन इति धातुर्नान्यत्रेममर्थमर्पयन्दृष्टः ।
इति विरुपसर्गश्चिन्त्यः । अभिस्तु प्रयुक्तो युक्तः स्यात् ।
१४०. परिपूर्वो मृजिः प्रयोक्तव्यः । तुन्दपरिमृजः, तुन्दपरिमार्ज
इत्यन्यत्र तथा दर्शनात् ।
१४१. न हि सन्ध्यभिसन्धी अभिन्नार्थौ भवतः । अभिसन्धिर्नाम
सन्ध्युद्देश्यकोभिप्रायोपन्यासः । अभिप्रायमात्रं वा । तेन म्लेच्छेन
सह सन्धिरित्येव वक्तव्यम् ।
१४२. निर्बन्धो हठो भवति । प्रतिः प्रयोज्यः । प्रतिबधानेति वक्तव्यम् ।
आभाषणेन वक्तुः प्रतिबन्धं मा कार्षीरित्यर्थः ।
१४३. अनुरस्थाने । अनुपूर्वो व्यधिर्व्याप्तौ वर्तते । अनुविद्धं व्याप्तं
परिगतमनुस्यूतं भवति यथा अनुविद्धमिव ज्ञानं सर्वं शब्देन
भासते (वा० प० १।१२४) इत्यत्र, यथा वा सरसिजमनुविद्धं
शैवलेनापि रम्यम् इत्यत्र । तुन्न क्षतमित्यर्थं तु नार्पयति । विदुषा
कविनोपसर्गकृतो विशेषो न लक्षितः । बाढमतिः स्थाने प्रयुक्तो
व्यधनस्यातिशयं ब्रुवीत ।
१४४. उत्पूर्वो वहिरुद्ग्रहणे. ऊर्ध्वं नयने वर्तते न तु सोत्कर्षे धारणे ।
तेन वहमेति निरुपसृष्टं प्रयोज्यम् ।
1