पृष्ठम्:शब्दापशब्दविवेकः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शब्दापशब्दविवेके १८७

१३१. सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमा: । लग्नं तदेव विख्यातं यत्र प्रस्मर्यते हरिः ।। (गरुड पु० २२२।२१) १३२ नोपायध्वं भयम् (भटि० ७।१०) । १३३. सा लक्ष्मीर्ययोपविधत्ते परेषाम् । १३४. स्वयं स्वयम्भूरुदयं प्रयातः श्री केशवानन्दमुनीन्द्रनामा (श्री केशवानन्द दि. सा.) । १३५. बहुविदप्यसावविनीत इति न विद्वत्सु परिगण्यते । १३६. नान्येह काचित्त्वादृशी परिपतति मम दृशौ । १३७. बुद्धिं वर्धयति श्रियं वितनुते वैदग्ध्यमामुञ्चति (सत्संगतिः) । १३१. स्मरतिना युक्तः प्रोपसर्गोऽर्थं विपर्यासयति । प्रस्मरति विस्मरती- त्यनर्थान्तरम् इत्युक्तमधस्तात् । तेन गरुडकारेणापि प्रशब्दव्यव- हारपरिहारेण व्यवहारोऽनुवृत्यः । १३२. उपायध्वम् इति यमेर्लोण्मध्यमपुरुषबहुवचने रूपम् । सूचनं चार्थं विवक्षति कविः । यमो गन्धन (१।२।१५) इति गन्धने सूच- नेऽर्थे सिचः कित्त्वं विधत्ते । गन्धनं हिंसाप्रयुक्तं सूचनमाह, न तु सूचनमात्रम् । सूचनं परेणाच्छाद्यमानस्यावद्यस्याविष्करणमिति वृत्तिः । प्रकृते सोऽर्थो नेति दुष्यति प्रयोगः । वृत्तिकारश्चात्रार्थे उदाङ्पूर्वं यमि प्रयुङ्क्ते । १३३ उपविधत्त इत्यपप्रयोगः । विधाञ करोत्यर्थमाचष्टे, उपविधान तूपकरोत्यर्थं न, प्रयोगाभावात् । न च कल्प्याः प्रयोगाः। १३४. प्रयात इत्यत्र प्रशब्दोऽस्थाने । प्रयातिः प्रस्थानमाह चलनं क्रमणं वा । तेन प्रशब्दस्त्याज्यः । १३५. परिगण्यत इत्यत्र परिः परिहर्तव्यः । एको बहुषु परिगणितेषु साकल्येन गणितेषु गण्यते इत्यर्थात् । १३६. परिपतनं परिभ्रमणं परिसरणं भवति, तेन परिरुपेक्ष्यः । १३७. आङ्पूर्वो मुचिर्बन्धने वर्तते । आमुक्तः प्रतिमुक्तश्च पिनद्धश्चा- पिनद्धवद् इत्यमरः । अवैदग्ध्यं विलुम्पतीत्यर्थो विवक्षित इति प्रतिभाति । तेनाङस्थाने ।