पृष्ठम्:शब्दापशब्दविवेकः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६ शब्दापशब्दविवेके


१२४. इदानीमपि भारतं वर्षं पण्डितप्रकाण्डै: संभृतमास्ते । १२५. आगमकालः खलु शिष्याणां प्रज्ञामेधयोर्निर्बिभर्ति । १२६. बिषमे पथि धावन्नन्धः पदे पदे संपतति । १२७. स च ज्ञानविशेष उत्पन्न: परलोके जन्मान्तरे फलमभ्युदयलक्षणा- मुपसंहरन् परलोकप्रयोजनो भवति (काशिका ६।१।४९) १२८. अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी । १२९. किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । भ्रमति विहगसार्थान् इत्थमापृच्छमानो रजनिविरहभीतश्चक्रवाको वराकः । १३०. हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपबिद्धं पीतमुन्मूलितं च (मालती० १।३१)। १२४. भृतमिति साधीयः स्यात् । प्रायेण संभरणं संग्रहणं भवति साध्य- साधनानाम् । १२५. भृञ् धारणपोषणयोर्जुहोत्यादिः सकर्मकः । निःपूर्वस्यास्य तिङि प्रयोगो नास्ति । कृत्स्वेव निर्भृतिनिर्भरादिषु प्रायो दृश्यते । प्रकृते आयतते, लम्बते तदाश्रितो भवतीत्यर्थः । निर्बिभर्तीति तत्रार्थेऽप्रयुक्तपूर्वमिति त्याज्यम् । अतिशयो भरः । अतिशयि निर्भरं भवति । १२६. सम्पातः संचारो भवति । तेन पतति निपतत्यवपततीति वा वक्तव्यम् । १२७. अत्रोपसंहरतिः प्रापणे वर्तत इति निर्दुष्टो न्यासः । १२८. अभ्यासानुसारिणीत्येव साधु । अनुमन्तराऽभीष्टार्थानुपलब्धेः । अभ्यासं सरतीत्यभ्याससारिणीति विग्रहः । अनर्थकप्रायं वचः । १२९. आप्रच्छनमामन्त्रणं भवति । तेनाङं परिहृत्य पृच्छन्निति वक्त- व्यम् । आङभावे परस्मैपदं च प्रयोज्यम् । १३०. अपविद्धमिति भृशं विद्धमित्यर्थे साधु । तत्रार्थेऽपि प्रयोगा: दृश्यन्ते । अपविद्धं शरैर्भृशम् इति भारते । प्रायेणापपूर्वस्य विध्यतेस्त्यागे निराकरणेऽर्थे प्रयोगा: प्रथन्ते । परिगणिते- ष्वौरसादिपुत्त्रेष्वपविद्धोप्येकतमः स्मर्यते । यः प्रास्तस्त्यक्तो भवति ।