उपसर्गाधिकारः१८५
११६. इतो गृहमुपगम्य द्राङ् मे पत्त्रं हिनु३ वृत्तं च तत्राखिलेन
विवृणु ।
११७. श्रीगान्धिप्रभृतयो जनानां नेतारो भारतं परदास्यान्निर्मोचयितुं
चिरं समयतन्त ।
११८. केयं कुचिता मेदिनी वीरस्य ।
११९. दुर्लभां मानुषीं तनूमवधार्य दुष्कृतं करोषि । हा हतोऽसि ।
१२०. वैदिकमुनिना श्रीहरिप्रसादस्वामिना सर्वोऽपि वेदवारिधिः सूक्ष्म-
तत्त्वरत्नान्युदमन्थि ।
१२१. अधीरस्य पदे पदे व्याकुलत्वं समापद्यते ।
१२२. संह्नुतेऽधमर्ण उत्तमर्णादात्मानम् ।
१२३. शास्त्रारिण सततं परिशीलयन्सोऽचिरादेव तत्र परं प्रावीण्यं समा-
लभत।
११६. हि गतौ वृद्धौ चेति स्वादिषु पठितः । अयं प्रायः प्रपूर्वः प्रयुज्यते ।
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै इति
श्वेताश्वतरोपनिषदि । अन्तर्भूतण्यर्थोऽयं प्रेषणे वर्तते । संहितासु
तु केवलोपि प्रयुज्यते बहुलम् ।
११७. निःपूर्वो मुच्लृ मोक्षण इति धातुः सर्पत्वक्त्यागे वर्तते । निर्मुच्यते
भुजङ्गः । निर्मुक्तो भुजङ्गः । भुजङ्गनिर्मोक इत्यादिषु दर्शनात् ।
अन्यत्र तु प्रायेण केवलः प्रयुज्यते यावदर्थविशेषो न विवक्ष्यते ।
तेन मोचयितुमित्येव वक्तव्यम् । समयतन्तेत्यत्रापि दोषः । सम्पूर्वो
यतिः स्पर्धायां संघर्षे वर्तते विग्रहणे वा। यथा देवाश्चासुराश्च
संयत्ता आसन् इति ब्राह्मणप्रयोगे। तथा चामरो युद्धपर्यायेषु
संयतं पठति-स्त्रियः संयत्समित्याजिसमिद्युध इति ।
११८. नान्तरेणोपसर्गं कुचतिः प्रयोगमवतरन्दृष्टः । तेन संकुचिताऽऽ-
कुचितेति वा वक्तव्यम् ।
११९. अवधारणं निश्चयनं भवति । तेन धृत्वेत्येव साधु ।
१२०. अत्रोच्छब्देन नार्थः । स च त्वचमुन्मथतीत्यादिषु चरितार्थः ।
अवलोडने तु केवलो मन्थतिर्मथ्नातिर्वा प्रयुज्यते ।
१२१. समापत्तिः समागमो भवति । यथा समापत्तिदृष्ट' इत्यत्र । तेनो-
त्पद्यत इति वक्तव्यम् ।
१२२. अपह्नत इत्येव व्यवहार्यम् ।
१२३. समालम्भो विलेपनमित्यमरप्रामाण्यात् केवलो लभिः प्रयोक्तव्यः ।