पृष्ठम्:शब्दापशब्दविवेकः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ शब्दापशब्दविवेके


१०७. यच्चलचित्रादिषु देशकालतो व्यवहितविप्रकृष्टानां वक्तॄणां वचांसि सामाजिकैः श्रूयन्ते तेनाकामतोऽपि शब्दनित्यत्वमभ्युप- पत्तव्यं भवति । १०८. निर्भीकोऽयं युवा शत्रुहस्तात्पताकां समाहृत्य वक्षसा न्यगूहत । १०९. नेदमस्मास्वाधीनम् । विद्यालयाध्यक्ष एवास्य सर्वस्य प्रभवति । ११०. केचिदाहुर्भक्तिर्ज्ञानायोपकल्पते, तदपरे न सहन्ते । १११. कपोलयोरुद्गतान् प्रस्वेदकणान् संमार्ष्टि । ११२. विश्वं सिसृक्षता धात्रापि तपोऽन्वतप्यतेति श्रूयते । ११३. तमिस्त्रा१ निष्क्रान्ता । प्रत्यूषश्चोपस्थितः । ११४. यदि मम वचनं हेलसे२ तदा ते सुखं न भविष्यति । ११५. स किलात्मशुद्धिमुद्दिश्य नित्यं योगविधीन् मम्नौ । १०७. अभ्युपपूर्वः पद्यतिरनुग्रहे वर्तते । अभ्युपपत्तिरनुग्रह इति चामरः । अनुग्रहः कष्टश्रितस्य परित्राणमाह । प्रतिशब्द: प्रयोक्तव्यः । प्रतिपत्तव्यमिति वक्तव्यम् । १०८. आहृत्येत्येव साधु । समाहरणं समाचयनं भवति । १०९. आधीनमित्यसंस्कृतम् । अधीनमित्येव प्रयोक्तव्यम् । इनं स्वा- मिनमधिगतोऽधीनः । खप्रत्ययान्तोऽप्यधीनशब्दः क्वचित्स्वतन्त्रं प्रयुज्यते । वाक्यं वक्तर्यधीनं होति वाक्यकारप्रयोगात् । ११०. कल्पते सम्पद्यत इत्यर्थः । तेनोपशब्दस्त्याज्यः । १११. प्रमाषर्ष्टीत्येव साधु । संमार्जनं नाम समूहन्याऽवकरादेरपनयनं भवति । यथा मार्गसंमार्गः क्रियताम् इत्यत्र । ११२. तपोऽतप्यतेत्येव वक्तव्यम् । अनुतापः पश्चात्तापोऽनुशयो भवति । ११३. अतिक्रान्तेति वक्तव्यम् । निष्क्रामति बहिर्गच्छतीत्यर्थात् । ११४. हेडृ अनादरे इत्ययं धातुनित्यमवपूर्वः प्रयुज्यते । तेनावहेलस इत्येव साधु । डलयोरभेदः । ११५. म्ना अभ्यासे इति धातुर्नित्यमाङ्पूर्वः प्रयोगमवतरति न केवलः । तेन आमम्नाविति वक्तव्यम् ।१. तमस्विनी रात्रिः तमिस्रा । २. हेडृ अनादरे भ्वादिरात्मनेपदी ।