उपसर्गाधिकारः १८३
९६. आपृष्ट एव ब्रूयान्नापृष्टः ।
९७. अन्तपालपदं सम्प्रति सुवर्णष्ठीवि जातम् ।
९८. वीरोऽपि वोरमित्रो भयाकुलो भूत्वा द्वे पदे पश्चादुपावर्तत ।
९९. ब्राह्मणा अपि श्रुतिपरिशीलनमुदवपन्१ का कथेतरेषाम् ।
१००. ये परहितं नित्यमुपाचरन्ति ते स्वस्य प्रियं कुर्वन्ति ।
१०१. वत्सला मातरमुपरतां श्रुत्वा स शीर्षावघातमरोदीत् ।
१०२. एतद्विषयविचारणा मासमवारुध्यत ।
१०३. ब्रह्मचर्यस्यैष महिमा यन्मृत्युरपि भीष्मवशगः प्रजातः ।
१०४. अयं हि मत्प्रतिवेशे२ प्रवसतोति तमहं साधु वेद ।
१०५ एवमुच्यमाने न काऽप्यसंगतिः परापतति ।
१०६. दिग्धकेना३ विद्धो मौहम्मदो घूर्णमानः शिरसा४ गामगात् ।
९६. आप्रच्छनमामन्त्रणं भवति । आमन्त्रणं नाम प्रस्थानाभ्यनुज्ञा-
सम्प्रार्थनम् । तेनाङ् त्याज्यः । पृष्ट इत्येव साधु ।
९७. ष्ठिवु निरसने इति धातुनियमेन निपूर्वः प्रयुज्यते । तेन स्वर्ण-
निष्ठीवि जातमिति वाच्यम् ।
९८. पश्चात् परावर्ततेति वक्तव्यम् । उपावर्तनं त्वन्तिके प्रत्यागमनं
भवति । शक्यं वा पश्चादिति पदं त्यक्तुम् । परावर्ततेत्येव विव-
क्षितमर्थमर्पयिष्यति ।
९९. परावपन्निति वक्तव्यम् । उक्तो हेतुः ।
१००. उपाचरन्तीत्यत्रोपशब्दो व्यर्थः । सेवनाद्यर्थान्तरप्रतीतेः ।
१०१. शीर्षघातमित्येव साधु । अवघातस्तु ब्रीह्यादेः कण्डने रूढः । घात-
श्चेहाघातमाह । परिक्लिश्यमाने च (३।४।५५) इति णमुल् ।
१०२. अत्राप्यवशब्दोऽस्थाने । अवरोधनं नामैकत्र व्रजादौ रोधनमुच्यत
इत्युक्तं पुरस्तात् ।
१०३. अत्र प्रशब्दस्त्याज्यः । प्रजातः प्रसूत इत्यनर्थान्तरम् ।
१०४: प्रतिवेशे प्रवसतीति विरुद्धं वचः । प्रवसति दूरे वसति इत्यर्थः ।
प्रशब्दो विप्रकः । तेन वसतीत्येव वक्तव्यम् ।
१०५. आपततीत्येव साधु । उक्तः परापूर्वस्य पततेरर्थः ।
१०६. न ह्याविद्ध आसमन्ताद् विद्ध इति भवति । किं तर्हि कुटिलः ।
तथा चामरः पठति-आविद्धं कुटिलं भुग्नमिति । तेन विद्ध इत्येव ।१. पर्यत्यजन्नित्यर्थो विवक्षितः । २. मद्गृहसमीपे ।
३. लिप्तकेन, विषदिग्धेव शरेण । ४. गां भूमिम् ।