१८२ शब्दापशब्दविवेके
८७. शाकुन्तलादीनि नाटकानि रङ्गस्थलेऽभियोक्तव्यानि जनरञ्ज-
नाय ।
८८. व्यपेता वर्षाः । अद्यापि नोत्तिष्ठते१ सीतासंमार्गणे सुग्रीव इति
कुप्यति रामः ।
८९. कथं व्याहन्यते वालिना ते सखा सुग्रीवः ।
६०. सत्यं संसारशुचामाहर्ता हरिः । प्रसिद्धा हि भगवतः करुणा
प्रगतेषु२ ।
६१. केशेषु प्रसितोऽयं युवा नित्यं नवां कुन्दमालां परिधत्ते ।
६२. अत्र समवधानं दीयमानं प्रार्थये ।
६३. कोपपरीतोऽसौ संमतं वाऽसंमतं वा जनं प्रतिघातयिष्यत्यसंश-
यम् ।
६४. को नाम पुमान् दावानलं संविश्य क्षेमेण निर्याति ।
६५. स्नानागारे स्नातुमभ्यविश स्नानीयसंभारं च तत्र प्रागेव संगृहीत-
मपश्यम् ।
८७. अभियोक्तव्यः प्रष्टव्यो भवति, दोषेण संयोक्तव्यो वा । प्रयोक्त-
व्यानीति वक्तव्यम् । प्रयोगेरणाधिकर्तव्यानीति वा।
८८. सीतामार्गण इत्येव साधु । सम्पूर्वस्य मार्गते: प्रयोगो न दृष्टः ।
अमरोऽपि संवीक्षणं विचयनं मार्गणं मृगणं मृग इति सम्शब्दमुपे-
क्षते ।
८६. व्याङ्पूर्वो हन्तिर्विरोधे वर्तते न तु हिंसायाम् । स्वोक्तं व्याहन्ति ।
विरुणद्धीत्यर्थः ।
१०. आहरणमानयनं भवतीति विरुद्धार्थप्रतीतिकृदाङ् परिहार्यः ।
६१. परिधानं हि परितो धानं भवति । शाटीं परिधत्ते । बृहतिकां
परिधत्ते । आच्छादयतीत्यर्थ: । तेन मालां धत्त इत्येव वक्तव्यम् ।
६२. सम्यगवधानं समवधानमित्यर्थस्वीकाराददोषः ।
६३. अत्र प्रतिना नार्थ: । प्रतिपूर्वो हन्तिर्गतिप्रतिरोधे रूढः । घात-
यिष्यसीत्येव साधु ।
१४. संवेशः स्वाप इत्यनर्थान्तरम् । तेन प्रविश्येत्येव शोभनं वचः ।
६५. आगारं प्राविशमिति प्रयोक्तव्यम् । न ह्यभे: प्रयोगो व्यवहारानु-
पाती ।१. नोद्युङ्क्ते, उद्योगं न करोति । २. भक्तेषु । ३ संलग्नः । ४. इष्टम् ।