पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसर्गाधिकारः १८१


७९. आसन्द्यां सुखं संशयानो धनिकः स्वादुङ्कारं ताम्बूलं चर्वति । ८०. यो हि साध्वतिवाहयति कृत्यं स सुखं प्रैधते । ८१. कशाप्रहारवर्षेण प्रवाहयति वाहान् देवदत्तो नियन्ता१ । ८२. महाकाव्यानुशीलनोपप्लावितो ब्रह्मानन्दसहोदरो रसः कणेहत्य निपीयताम्। ८३. विनेया२ व्याकरणे न्याये च तथाभिविनेया३ यथा गुरुसाहाय्य- निरपेक्षं ग्रन्थान् संलापयेयुः । ८४. अहह ! सदाचाराः प्रबलवात्योपहता इवोड्डीयन्ते । ८५. महानस्य विकार उज्जृम्भते रुजार्तस्य । पीयूषपाणिर्ध्रुवसिद्धिर्नाम वैद्योऽप्यत्र विमुह्यति । ८६. अहो स्पृहणीयः स कालो यत्र विद्वत्सु गुणग्राहिता समसरदनु- रागश्च । ७९. शयान इत्येव वक्तव्यं समाऽर्थान्तरप्रतीतेः । ८०. निर्वाहयतीति प्रयोक्तव्यम् । कालमतिवाहयति कालं गमयती- त्यर्थात् । ८१. प्रवाहयति प्रकर्षेण वाहयति गमयतीत्यर्थः । कर्णीरथः प्रवहणं डयनं च समं त्रयमित्यत्रामरे प्रपूर्वो वहतिः प्रकृष्टगतौ त्वरित- गमने दृष्टः । तेन प्रकृतेऽपि न कश्चिद्दोषः । यथाऽऽपः प्रवहन्ति स्यन्दन्ते तथा गमयतीत्यर्थः । ८२. अत्रोपप्लावितशब्दे उपेन नार्थ: । उपप्लव उपद्रवो भेदो विनाशो वा भवति । प्लावितब्रह्मानन्दसहोदरो रस इति वा वक्तव्यम् । परिशब्दो वा योजनीयः । ८३. विभाषा लीयतेरिति लीङो वाऽऽत्वम् । सम्पूर्वो लीङ् संकोचे वर्तते संलोनकुक्षिरित्यत्र यथा । संलापयेयुरिति च ण्यन्तं संलपि बलाद् बुद्धौ करोतीति समशब्दोऽस्थाने । ५४. उपहतं दूषितं भवति । तेनाऽऽहता इत्येव वक्तव्यम् । ८५. उज्जृम्भत उत्सहत इति प्रायोऽर्थः । व्यालं बालमृणालतन्तुभि- रसौ रोद्धुं समुज्जृम्भत इति भर्तृहरौ (१।६) । प्रकटीभवनं वर्धनं चाप्यर्थावभ्युपगतौ । तेन प्रकृतेऽदोषः । ८६. संसरणं नाम योनेर्योन्यन्त रोपसंक्रमणं भवति । तेन प्रासरदिति वक्तव्यम् ।१. सारथिः । २. शिष्याः। ३. शिक्षणीयाः ।