पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० शब्दापशब्दविवेके


७०. मनाग् इह समवधीयताम् । अहमस्मि ते किमपि रहस्यमाचि- ख्यासुः । ७१. आयुर्वेदे निष्ठितो१ऽप्ययं भिषङ्मन्दं विचिकित्सत्यातुरान् । ७२. यावदेव तं द्रक्ष्यामि तावदेव संहनिष्यामि । ७३. सन्दिग्धफलेन पत्त्रिणा२ चकर्त शूरो द्विषतां शिरांसि । ७४. प्रस्मरसि कृष्ण ! गोकुले वत्स्यामः । ७५. संजानानान्३ परिहरन् रावरणानुचरान्बहून् (भट्टौ ८।२७) । ७६. बाणमुद्यतमायंसीत्४ (भट्टौ ६।११९।)। ७७. वृद्धौरसां राज्यधुरां प्रवोढुम् (भट्टौ ३।५४) । ७८. सन्धत्ते भृशमरतिं हि सद्वियोगः (किराते ५।५१) ।। अवधीयतामिति साधु । प्रायशः समवधानं संभरणं सज्जीकरणं भवति यथा सामग्रीसमवधानम् । कोषे तु साध्ववधानं समव- घानमित्यपि स्थितम् । ७१. विचिकित्सा संशयो भवतीति चिकित्सतीत्येव वक्तव्यम् । ७२. हनिष्यामीत्येव साधु । संपूर्वस्य तु हन्तेः सम्पिण्डनमर्थ इत्यस- कृदुक्तं पुरस्तात् । ७३. दिग्धशब्दो विषदिग्धमाह । विषाक्ते दिग्धलिप्तकावित्यमरः । संपूर्वस्तु दिहिः संशये वर्तते । ७४. प्रस्मरणं विस्मरणं भवति न तु प्रकृष्टं स्मरणम् । तेन स्मरसी- त्येव प्रयोक्तव्यम् । ७५. संज्ञानं स्मरणं वा भवत्यानुगुण्येन व्यवहारो वा । मातरं मातुर्वा संजानाति । मातरं मात्रा वा संजानीते । अभ्युपगमनं खल्वपि- शतं संजानीते । कविना तु ज्ञाने परिचयनमात्रे संजानातिः प्रयुक्त: । तेन समा नार्थ इति भाति । ७६. आयसीदुपसंहृतवानिति जयमङ्गला । आङ्पूर्वो यमिरत्रार्थे शक्त इति संदिह्मः। ७७. प्रवोढुमित्यत्र प्रशब्दोऽस्थाने । प्रवाहो नाम स्यन्दनं भवति । ७८. सन्धत्त इत्यस्य साधुत्वे सन्दिह्यते । आधत्त इति तु शोभनं स्यात् ।१ प्रवीणः । २. बाणेन । ३. जानतः, परिचिन्वत इत्यत्रार्थे कविप्रयोगः । ४. उपसंहृतवान् इत्यर्थो विवक्षितः ।