पृष्ठम्:शब्दापशब्दविवेकः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसर्गाधिकारः १७६


६२. कालान्तरे तवोपकरिष्यामीति मा त्वमावधीर्मामिति मूषिक: सिंह- म्प्रत्याह। ६३. विविक्तासनो निमीलितनेत्रो नित्यं प्रातः परमेश्वरं निध्यायेत् ६४. तत्त्वं ज्ञातुं विचेष्टस्व । अक्षरार्थेन ज्ञातेन केवलेन नार्थः । ६५. न हि शशाङ्कविरहिता कुमुदिनी शोभामादधाति । ६६. अथेष्टदेवतामामृशति१ मङ्गलं च कामयते । ६७. सुजनास्तु दोषज्ञा२ अपि परदोषेषु दृष्टिमपि नाक्षिपन्ति । ६८. उत्पथप्रस्थितः को नाम शक्योऽवरोद्धुं प्रत्यभिनिविष्टश्चेत् स भवति । ६९. व्यृद्धपूर्वः३ सम्प्रति समृद्धोऽविनीतो न समाभाषते सखायमपि । ६२. आङ्पूर्वो हन्तिराघाते वर्तते न तु घाते । घातो वा वधो वेहाभि- प्रेत इति मा त्वं वधीर्मामिति निर्दुष्टं वाक्यम् । ६३. निध्यानं निर्वर्णनमवलोकनं भवतीति चिन्तनेऽर्थे ध्यायेदित्येव शोभनं वचः । ६४. चेष्टस्वेति वाच्यम् । विर्विरोधे वर्तते । विचेष्टते विरुद्धं चेष्टते । ओदनस्य पूर्णाश्छात्रा विचेष्टन्ते विकुर्वत इत्यर्थः । ६५. आङ्पूर्वो दधातिः प्रायेण जनने वर्तते न तु धारणे । तेन दधती- त्येव शोभनम् । ६६. इष्टदेवतां परामृशतीति वक्तव्यम् । परामृशति मनसा तां गच्छति चिन्तयतीत्यर्थः । आमर्शनं तु स्पर्शनं वा भवत्याच्छेदनं वा । आमृष्टं नः परः पदम् इत्यत्र कुमारे (२।३१) यथा । ६७. क्षिपन्तीत्येव शोभनम् । आक्षेपणं त्वाच्छेदनमवहेलनं वा भवति । ६८. प्रतिरोद्धमित्येवानवद्यम् । अवरोधनं त्वेकत्र प्रदेशे व्रजादौ रोधनं भवति । यथावरोधोऽन्तःपुरं भवति, अन्तःपुरस्था योषितो वा । ६६. आभाषते इत्येव सुवचनम् । आलपतीत्यर्थः । यदि समुपसर्गः प्रयुयुक्षितस्तदाऽऽङा नार्थः । संभाषत इत्येव वक्तव्यम् । सख्येति तृतीयान्तं च प्रयोज्यम् ।१. ध्यायेदित्यर्थो विवक्षित: । २. विद्वांसः । ३. पूर्वं दरिद्रः ।