१७८ शब्दापशब्दविवेके
५४. उपयुक्तशेषं धनं धर्मार्थे नियुञ्जीत, पात्रेषु वा प्रतिपादयेत् ।
५५. देवा ह्यतीतानागतयोः परिवेत्तारः कामानां च दोग्धारः ।
५६. ये ये ते परिचिताः सखायो वा सर्वसे महेऽस्मिन्नुपमन्त्रयितव्याः ।
५७. य आत्मानं तारयितुमनीश: स परान्कथमवतारयेत् ।
५८. अहं त्वयि दिनत्रयीमेव पर्यवस्थाताहे, ततो मयाऽऽवश्यमितः
प्रस्थेयम् ।
५९. उल्लिखिते सन्दर्भे कवेराशयं व्याख्याहि, स्वं मतं च तत्र ब्रूहि ।
६०. नानादिग्देशेभ्यः सीतासंवरणार्थमागता राजन्याः शाङ्करं धनु-
रुत्तोलयितुमपि नेशाञ्चक्रिरे१ किम्पुनरारोपयितुम् ।
६१. प्राकृतान्मा प्रतीषीः प्रसादम् ।
५४. अस्तीह नियोगविनियोगयोर्भेदः। तेन धर्मार्थे विनियुञ्जीतेति
वक्तव्यम् ।
५५. परिपूर्वस्य विन्दतेस्तु ज्यायांसं भ्रातरं परिवर्ज्य कनीयसो दार-
ग्रहणमर्थः । तेन प्रकृते वेदितार इत्येव वक्तव्यम् ।
५६. उपमन्त्रणं रहस्युपच्छन्दनं भवतीति काशिका । तेन निमन्त्रयि-
तव्या इति वक्तव्यम् ।
५७. अवोऽस्थाने । तारयेदित्येव वक्तव्यम् । सलिलमवतरति सलिल-
मवगाहत इत्यर्थः, न सलिलस्य पारं यातीति । पारयानं चेह
विवक्षितं यथा तरति शोकमात्मविद् इत्यादिषु ।
५८. पर्यवपूर्वस्तिष्ठतिविरोधे वर्तते तथा चामरः पठति -पर्यवस्था
विरोधनम् इति । आचार्यः खल्वपि छन्दसि परिपन्थिपरिपरिणौ
पर्यवस्थातरीति सूत्रे तमेवार्थं प्रमाणयति । तेनावस्थाताह इत्येव
वक्तव्यम् । बुद्धिः पर्यवतिष्ठत इति गीतावचने तु पर्यवपूर्वस्य
तिष्ठतेः स्थैर्यलाभोऽर्थः ।
५९. उल्लेखनं प्रायो विलेनं भवति न तूपरि लेखनं प्रत्यवमर्शनं वा
तेन लिखितपूर्वे उद्धृते इति वा वाच्यम् ।
६०. संवरणे सम्शब्दोऽर्थविपर्यासकृत् । संवरणं गोपनं प्रच्छादनं
भवति । वरणमेवानुपसृष्टमभीष्टमर्थमर्पयति ।
६१. प्रतिपूर्व इषिर्ग्रहणे वर्तते न त्वभिलाषे । अभिलाषश्चेहार्थः प्रति-
भाति तेन प्रनिशब्दस्त्याज्यः ।१. न समर्था बभूवुः । ईशेर्लिटि रूपम् ।