उपसर्गाधिकारः १७७
४५. उत्पीडिता अपि पाकिस्थानगता हिन्दवो नैच्छन्गृहांस्त्यक्तुम् ।
४६. न तस्य काराभवनेषु देवना, प्रताडितस्यापि न कापि वेदना ।
४७. यदेव देशाभ्युदयिकमिति रभामहे तदेवाक्षिगतं भवति परेषाम् ।
४८. मेघनादशक्त्या मर्मस्वाहतो मूर्च्छितः सौमित्रिर्हनुमदाहृतयौष-
ध्या जीवितोऽभूत् ।
४९. मातुराशिषः प्रगृह्य पुत्र आत्मानं कृतिनममन्यत ।
५०. यज्जीवतस्त्वचमाच्छिन्दन्ति तत् किमपि दुःखं तस्य जनयन्ति ।
५१. गुरोरन्तिकमुपेहि बटो ! व्याकरणं चागमय१ ।
५२. यदि कथासंकथयोस्ते विवेकोऽस्ति नूनमुपसर्गव्यवहारं प्रजानासि ।
५३. धीरा अपि दुर्जनान् संचक्षते२, खलसम्पर्कभीरवो हि ते ।
४५. उपपीडिता इति वक्तव्यम् । आचार्योऽपि हिंसायामर्थे उपपीड-
यतिमिच्छति । तथा चासुसूत्रत्-'सप्तम्यां चोपपीडरुधकर्षः
(३।४।४९) इति । उत्पीडयतिस्तूपरोधने वर्तते । यथा--अन्यो-
न्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयम् इत्यत्र कुमारे (१११०)। उत्सारणे
वा यथा एताः करोत्पीडितवारिधारा इत्यत्र रधौ(१६।६६) ।
४६. दिव परिकूजने चुरादिः। अयं परिपूर्व एव प्रयुज्यते, तेन परि-
देवनेति प्रयोज्यम् ।
४७. आरभामहे प्रारभामह इति वा वक्तव्यम् । केवलस्य प्रयोगा-
दर्शनात् ।
४८. संजीवितोऽभवदिति वक्तव्यम्, उज्जीवित इति वा । एष व्यवहारः
प्रायिकः । केवलस्यापि प्रयोगोऽदुष्टः । तथा चामरः पठति-'जीवा-
तुर् जीवनौषधम् इति ।
४९. प्रपूर्वो गृह्णातिबन्धने वर्तते। तथा चामरः पठति प्रग्रहोपग्रहों
बन्द्याम् इति । तेन प्रतिगृह्य परिगृह्येति वा वक्तव्यम् ।
५०. छिन्दन्तीत्येव साधु । आङ् पूर्वश्छिदिर्बलाद् हरणे मोषणे आम-
र्शने वा वर्तते ।
५१. अत्रान्तिकशब्देनोपशब्दो गतार्थ इति 'इहि' इत्येव प्रयोक्तव्यम् ।
५२. संकथा संलापो भवति । पतितः संकथाऽपि पातित्याय भवति ।
५३. चक्षिङः ख्याञ् इति सूत्रे वर्जने प्रतिषेधो वक्तव्य इति वात्तिक
पठति वृत्तिकारः, दुर्जनाः संचक्ष्या इति चोदाहरति । तेन सम्पूर्व-
श्चक्षिङ् वर्जने वर्तत इति प्रकृतेऽदोषः ।१. शिक्षस्व । २. परिवर्जयन्ति ।