१७६ शब्दापशब्दविवेके
३६. कस्मिंश्चिदावसथे सोमदत्तो नाम ब्राह्मणः प्रतिवसति स्म ।
३७. ब्राहाणेषु प्रमूढेषु१ राजन्यवैश्या अज्ञानोपहताः स्युः ।
३८. नहि पदान्तरसमभिव्याहार२ मन्तरेण केवलं सुभाषितमिति पदे
समुच्चार्यमारणे माधुर्यविशेषस्यानुभूतिरस्ति ।
३९. इति यथामति स्वमतमुपन्यसितुं परमतं चापोहितुमायते ।
४०. कल्याणी खलु तस्य मतियः शास्त्रशीलनेऽभिविशति३ ।
४१. न हि गोगौरवं गुरुणा४ऽपि निरवशेषं गीर्यते ।
४२. एवं स्वैरिणः सन्तस्ते तमोगर्ते महति संनिपतन्ति ।
४३. धर्मचर्ययार्थकामौ संलभते जन इति भारते व्यासवचनम् ।
४४. यथाऽबलाहरणं तथा धनाहरणं पतनीयेषु५ गण्यते ।
३६. आवसथ इत्यत्रास्थान आङ् । संवसथो ग्रामपर्यायः । आवसथश्च
पान्थगृहं भवति । तेन संवसथे इति वक्तव्यम् । प्रतिपूर्वो वसतिः
समीपे वसने वर्तते । तेन वसति स्मेति वाच्यम् ।
३७. प्रमोहो मूर्छा भवति । तेन मूढेषु इत्येव वक्तव्यम् ।
३८. बहूनां सहोच्चारणं समुच्चारणं भवतीति व्यक्तवाचां समुच्चारण
इति सूत्रे वृत्तौ स्पष्टम् । तेनोच्चार्यमाणे इत्येव वक्तव्यम् ।
३९. यती प्रयत्ने इति धातुराङ्पूर्वः परतन्त्रीभवने वर्तते । इदं मय्या-
यतते । इदं ममायत्तमित्यादिषु तथा दर्शनात् । तेन यते प्रयते
वेति प्रयोज्यम् ।
४०. अभिनिविशते इति वक्तव्यम् । अत्राऽभिनिपूर्वो विशतिर्व्यव-
ह्रियते नाभिविशतिः ।
४१. उद्गीर्यत इति वक्तव्यम् । गृणातिरयं प्रायेणोच्चारणे कथने
वोत्पूर्व एव प्रयोगमवतरति न केवलः ।
४२. सन्निपातः समुदयो भवतीति संनिपतन्तीति समुदिता भवन्ती-
त्यर्थमाचष्टे । स च प्रकृते नेष्ट इत्यवपतन्ति निपतन्तीति वा
वक्तव्यम् ।
४३. लभिरनुपसृष्ट एव प्रयोगमवतरन्दृष्टो यावदर्थान्तरं न वक्ति ।
सम्पूर्वस्य त्वस्य प्रयोग एव नास्ति ।
४४. आहरणं हि भिद्यते हरणात् । इह धनस्य हरणं मोषणं विव-
क्षितं न तु कुतश्चिदानयनम् । तेनाङ् त्याज्यः ।१. अज्ञानेष्वित्यर्थो विवक्षितः । २. समभिव्याहारः संनिधावुच्चारणम् ।
३. प्राग्रहवान् भवतीत्यर्थो विवक्षितः । ४. बृहस्पतिना । ५. पातवेषु ।