उपसर्गाधिकारः १७५
२९. कोमलास्तरणायां सोपबर्हायां शय्यायां प्रतिशयितोऽहं चिरं
निद्रासुखमन्वभूवम् ।
३०. विषयेषु निलीना आत्मानमपि विस्मरन्ति किमुतात्मीयान् ।
३१. हा दास्याः पुत्त्रैर्मधुकरैः सन्दश्ये । कायस्व मां सखे ।
३२. केचिदध्यापकाभासा: शिष्याणामर्थं परिहृत्य स्वार्थं साध-
यन्ति ।
३३. ईश्वराश्च' दरिद्राणामुपकण्ठमपि नोपगच्छन्ति, साह्यकरणं तु
दूरेऽपास्तम् ।
३४. नदन्ति च बलाहका वार्योघसंवाहकाः, दूरे च वसतिः । किमत्र
शरणम् ?
३५. साम्प्रतिका हिन्दवो हिन्दीमपि विरलमेवासेवन्ते किमुत संस्कृ.
तम् ।
-
२९. प्रतिशयनं नाम देवतायाः सम्मुखे भक्तस्यानशनं शयनं यावन्मनो-
रथसमृद्धिम् । तेन प्रतिशब्दः परिहार्यः । शयित इत्येव च
वक्तव्यम् ।
३०. निलयनं नामान्तर्धानं भवतीति निस्त्याज्यः । लीना इत्येव
निर्दुष्टं वचः ।
३१. सम्पूर्वो दंश दशन इति धातुः संयोजने वर्तते । यथा संदंशः
सन्दष्टजिह्व इत्यत्र । तेन केवलः प्रयोक्तव्यः ।
३२. परिपूर्वो हरतिस्त्यागे उपेक्षणे वा न तु ग्रहणे मोक्षणे वेति
हृत्वेत्येव प्रयोक्तव्यम् अपहृत्येति वा ।
३३. नोपगच्छन्त्युपकण्ठम् इति वाक्ये उपेन नार्थः । गच्छन्तीत्येव
पर्याप्तम् । उपकण्ठमित्यव्ययीभावः सामीप्ये वर्तते ।
३४. संवाहनं मर्दनं भवति । तेन वाहका इत्येव वक्तव्यम् ।
३५. आङ्पूर्वः षेवृ सेवने इति धातुः क्रियातात्पर्य्र् पौन:पुन्येन सेवने
वर्तते । इदं च विशिपतिपदिस्कन्दा व्याप्यमानासेव्यमानयोः
(३।४।५६) इति सूत्रे स्पष्टम् । तेन विरलमासेवन्त इति वदतो
व्याघातः । विरलं सेवन्त इत्येव निर्दोषो न्यासः ।१. धनिनः ।