१७४ शब्दापशब्दविवेके
२१. द्वितीयस्यामावृत्तौ ग्रन्थेऽस्मिन्नर्थभेदस्तु न क्वापि कृतः, विशेषस्तु
विलिखितः ।
२२. ग्रन्थमिमं संवीक्ष्य महदुपकृताः स्म इत्यनुभविष्यन्तिच्छात्राश्चोपा-
ध्यायाश्च ।
२३. यथाऽहं वैदेशिकै: संवर्ते तथा स्वदेशजैः । नैकत्र मे पक्षपातोऽस्ति ।
२४. भवद्वचनाङ्गीकारे दोषा अपि केचन परापतन्ति ।
२५. इतः प्रेत्य जन्मान्तरं सन्दधति जीवाः । अनुच्छित्तिधर्माणो हि
ते ।
२६. अपदे पदसंनिधानेन महान्तोऽपि गर्हां लभन्ते ।
२७. यः खलु बाल्ये विरज्य प्रव्रजति द्वितीये च वयसि विलीयते विष-
येषु सोऽधमो नृणाम् ।
२८. अयि प्रगल्भवादिन् ! सत्यवचसमपि मामसत्यवचसं संकरोषि ।
२१. विलेखनं विशिष्टं लेखनमिति मा स्म भ्रमीः । विलेखनमुल्लेखनं
पादादिनाऽऽहत्य मृदाद्युत्क्षेपणम् भवति । तथा च कवीनां
प्रथन्ते प्रयोगा:--पादेन हैमं विलिलेख पीठम् (रघौ६।१५) ।
यमोऽपि विलिखन्भूमिम् (कु० २।१२) । मन्दं शब्दायमानो
विलिखति शयनादुत्थितः क्ष्मां खुरेण (काव्यप्र०)। क्वचिदा-
लेखनेऽपि वर्तते । तेन प्रकृते विशब्दस्त्याज्यः ।
२२. संवीक्षणं विचयनं मार्गणं मृगणं मृग इत्यमरात् संविपूर्व
ईक्षतिर्विचयने गवेषणे रूढः । तेन वीक्ष्येत्येव वक्तव्यम् ।
२३. सम्पूर्वो वृतु वर्तन इति धातुरुत्पत्तौ वर्तते न तु संव्यवहारे ।
तेन सह वर्त इत्येव साधु ।
२४. परापूर्वः पततिरुपगमने प्रत्यागमने वा वर्तते । तेन आपतन्तीत्येव
वक्तव्यम् ।
२५. सम्पूर्वो दधातिः संयोजने सम्पर्चने वर्तते । तेन समा नार्थः ।
दधतीत्येव पर्याप्तम् ।
२६. अत्र समोऽभावे श्रेयान्विन्यासः स्यात् । समा सहितोऽपि कथ-
ञ्चित् सह्यः ।
२७. विलयनं द्रवीभवनमित्यर्थान्तरम् । तेन विशब्दमपहाय लीयत
इत्येव वाच्यम् ।
२८. अत्र समा नार्थः । करोषीत्येव पर्याप्तम् ।