उपसर्गाधिकारः १७३
१३. आमुक्तशस्त्रस्य द्रोणस्य शिरश्चकर्त धृष्टद्युम्नः शरेण ।
१४. उदहारि१ । या त्वं शिरसा कुम्भमावहसि सा त्वं किमिति विष-
मेण पथा धावसि ?
१५. यः शब्दान्सम्प्रयुङ्क्ते नापशब्दान्स व्याकरणं वेद नेतरः ।
१६. शूरोऽपि नृपतिः पथश्च्युतश्चेद्भवति निःशङ्कं प्रजाभिः संहननीयः ।
१७. व्याख्यागम्योऽयं सन्दर्भः स्तीर्णामपेक्षते व्याख्यां वैशद्याय ।
१८. धर्मादर्थः प्रजायते, अर्थाच्च काम इति स्मर्यते ।
१९. भिद्यन्तेहि धर्मा युगावर्तानुसारेण । उक्तं हि महाभारते -न
चैकान्तिको धर्मो धर्मस्त्वावस्थिकः स्मृत इति ।
२०. यस्मात्पुर्यनुशेते तस्मात्पुरुष उच्यते ।
१३. आङ्पूर्वो मुञ्चतिर्बन्धने वर्तते । तेन प्रकृतेऽर्थविपर्यासो जातः ।
मुक्तशस्त्रस्येति वक्तव्यम् ।
१४. आङ्पूर्वो वहतिर्जनने वर्तते इति धारणेर्थे केवल: प्रयोक्तव्यः ।
तद्धरतिवहत्यावहति-(५।१।५०) सूत्र एतदर्थक एवावहतिः
प्रयुक्तः ।
१५. प्रपूर्वो युजिर्व्यवहारे वर्तते । सम्पूर्वस्तु संयोजने संश्लेषणे । तच्च
प्रकृते न युज्यत इति प्रयुङ्क्त इत्येव वक्तव्यम् । न च सम्यक्
प्रयोगः सम्प्रयोगो भवति । तत्रार्थऽस्य रूढिर्न ।
१६. हननीय इत्येव साधु । सम्पूर्वो हन्तिस्तु संघातीकरणे सम्पिण्डने
वर्तते । अतः संघातरूपोऽर्थः शरीरं संहननमित्युच्यते ।
१७. विपूर्व एव स्तृणातिः प्रपञ्चमाह न केवलः । तेन विस्तीर्णामिति
वक्तव्यम् ।
१८. जनी प्रादुर्भावे इति धातुः प्रपूर्वः प्रसवे विजनने वर्तते । यथा
'प्रजाता' इत्यत्र । तेन जायत इत्येव श्रेयः । औपचारिकत्वे न
दोषः ।
१९. युगपरिवर्तानुसारेणेति वक्तव्यम् । आवर्तोऽम्भसां भ्रम इति
रूढिः । यौगिकोऽप्यावर्तशब्दो वृत्तेः पौनःपुन्यमाह न त्ववस्था-
न्तरगमनम् ।
२०. अत्रानुना नार्थः । अनुशयो हि पश्चात्तापो भवति ।१. उदकं हरतीति, उदहारी, तत्सम्बुदौ ।