१७२ शब्दापशब्दविवेके
५. अनाद्यनन्ता सर्गसंसृतिरियमित्याहुरभियुक्ताः१ ।
६. अमेध्ये पतितं काञ्चनं न न चिनुते जनः ।
७. दीप्यते सप्तसप्तिर्न तु सन्दीप्यते । अस्ति हि दीप्तिसन्दीप्त्यो-
र्विशेषः । कथं वा मन्यसे ?
८. देवमन्दिरप्रवेशे त्रैवर्णिका एवाधिकृता इति न शास्त्रे क्वचित्
प्रतिश्रयते ।
९. अहं हि तं धर्मं विसृजेयं योऽस्पृश्यत्वं शिष्यात् ।
१० आङ्गलेषु ज्येष्ठ एव सुतः पितुर्दायमनुहरतीति सामयिक
आचारः ।
११. दानवत्रासविहस्ता देवयजो यागकर्त तामुदवीवपन् ।
१२. एवं परापचिकीर्षया ये कुचेष्टन्ते ते हठान्निरोद्धव्याः ।
५. सम्पूर्वः सरतिर्योन्युपसंक्रमे संक्रमणमात्रे देशाद् देशान्तरं
प्रति गमने च वर्तते । संसरति देही नाना योनीरुपगच्छतीत्यर्थः ।
तेन प्रवाहशब्दः प्रयोक्तव्यः ।
६. अत्रोच्छशब्देन चिनोतिर्विशेषणीयः । उच्चिनुत इति वक्तव्यम् ।
केवलस्य तु इष्टकाश्चिनोतीत्यादिषु प्रयोगः ।
७. दीप्यते प्रकाशत इत्यर्थः । सन्दीप्यतेऽग्निवलति समिद्धो
भवतीत्यर्थः । अत एव सन्दीपनानीमानि वचनानि क्रुद्धस्येति
संगच्छते ।
८. प्रतिश्रवः प्रतिज्ञानं भवति । तेन प्रकृते प्रतिना नार्थः । श्रूयत
इत्येव साधु ।
९. उत्सृजेयमिति साधीयः । विसर्गो विमोक्षो भवति । धर्मशब्देनेह
धर्मशास्त्रं गृह्यते ।
१०. अत्रानुना नार्थः । अनुः सादृश्यद्योतकः तच्चेह नेष्यते ।
११. उत्पूर्वस्य वपतेरुद्धारोऽर्थः, यथाऽऽवापौद्वापावित्यत्र । प्रासने तु
प्रशब्दस्तदर्थद्योतकः प्रयोक्तव्यः पराशब्दो वा । प्रावीवपन्निति
वक्तव्यम् ।
१२. कुशब्दोऽव्ययम्, नायं प्रादिर्न चोपसर्गः । कुत्सितं चेष्टन्ते
विचेष्टन्ते असच्चेष्टन्त इति वा वक्तव्यम् ।१. विपश्चितः । २. समयः पौरुषेयी व्यवस्था, तत आगतः सामयिकः ।