पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपसर्गाधिकारः ६४. तैस्तैः सपत्नीदुर्वाक्य र्दुनोषि त्वं यथमर्भक (स्कन्द० का० ४।२०।५८)। ६५. सुधां सुधांशुवदन धयन्त्यपि धुनोमि न (स्कन्द० का० ४ १६।६४)। ६६. तस्य दर्शनमात्रेण विघ्नसार्थः क्षयेत्स्वयम् (स्कन्द० का० ४ । ५७ । १००)। ६४. टुदु उपतापे स्वादिः। अर्थनिर्देशादेव सकर्मकता सिद्ध । तपिः सकर्मक इति सन्देहानास्कन्नम् । तं बिहाचारिणं) चेत किञ्चिदुपतपेदित्यादेरुपनिषत्सु दर्शनात् । उपतापी रोगः । रुज, तीति रोगः । दूयस इति तु वक्तव्यम् रिताप दिवादिर- कर्मकः ६५. घिवि प्रीणने भ्वादिः सकर्मकः । धिनोति पयसा) इहिं धेनुः । ६६. क्षि क्षये भ्वादिरकर्मकः । अन्तर्णीतण्यर्थस्तु सूकसक इति दीक्षित इति सकर्मकत्वाकर्मकत्वविवेचनम् । अथोपसर्गाधिकारः षष्ठः १. स प्रातः सायं च विजुहोति हव्यवाहनम् । २. वियोगवह्निन भस्मसात् संस्कुरुते शरोरं ग्लपयत्येव त्वहर्निशम् । ३. न च पामरैविप्रलभ्यः सतां सङ्गः । ४. द्वेषो वा शसनं वा गद्यतमं कर्मेति शास्त्रकाराः । १. संस्कृते वाङमये जुहोति: केवल एव देवतोद्देश्यकहविर्दाने वर्तते न तूपसृष्टः । एष व्यवहारः। व्यवहारपरतन्त्राश्च वयम् इति विशब्दः परिहार्य :। २. अत्र समुपसर्गोऽस्थाने । भूषणाद्यर्थस्याभावात्सुडपि दुर्लभः । तेन कुरुत इत्येव वक्तव्यम् । ३. प्रपूर्वो विप्रपूर्वो वा लभिर् वञ्चनेऽतिसन्धाने वर्तते । प्रकृते नासावर्थो घटत इति लभ्य इत्येव पाठ्यम् । ४. शसु हिंसायामिति भूवादिः । प्रायेणायं विपूर्व इति विशसनमिति वक्तव्यम् । १. हिंसा।