पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० शब्दापशब्दविवेके


५८. विधेयत्यलं स्वामिनं भूतनाथम् (मोह० २।१०) । ५९. न जिन्वति द्वन्द्वरतौ च कामम् (मोह० ७।३३)। ६०. को नो भास्करसन्निधौ विकचति प्रातः सरोजोत्करः (मोह० ४।१७)। ६१. स नोऽकारणं शत्रूयति । ६२. कच्चिच् चास्मान् प्रीयसे धूमकेतो (भा० आश्व० ९।१३) । ६३. कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप (भा० आश्रम० २८।२)।

५८. विधेयति स्वामिनम् -- अयमपि दु:समाधानो न्यासः । विधेय इवाचरतीति विधेयति । आचारे क्विप् । सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्य इति तद्विधायकं वार्तिकम् । नायं सुब- न्तात्कर्मणो विधिः। स चेत्स्यात्स्वामिनं विधेयी करोतीत्यनर्थः स्यात् । स्वामिनि इति सप्तमी तु शक्या प्रयोक्तुम् । ५८. जिवि प्रीणने इति सकर्मकः । अर्थनिर्देशो हि सकर्मकत्वस्य ज्ञापकः । भूमिं पर्जन्याः जिन्वन्ति दिवं जिन्वन्त्यग्नय (ऋ० १।१६४।५१) इत्यादिषु सकर्मकत्वदर्शनाच्च । ६०. विकचति सरोजोत्करः । अत्र विकचतीति विकसतीत्यर्थे प्रयोगः । कच बन्धने सकर्मकः । तस्य विपूर्वस्य तिङि प्रयोग एव नास्ति । कृति तु विकच इति प्रचुरः प्रयोगः । इदं शब्दस्वाभाव्यम्, न शक्यमन्यथयितुम् । व्याकरणं ह्यन्वाख्यानस्मृतिः । व्याकरणेन हि शब्दा व्युत्पाद्यन्ते नोत्पाद्यन्त इति प्रस्मरन्ति नूत्नशब्दनि- र्मित्साप्रयुक्ता: प्रयोक्तारः । ६१. शत्रूयति नः । न इति द्वितीयान्तम् । उपमानकर्मणः क्यजन्त- धात्वर्थेऽन्तर्भावाद् रोदितिवदकर्मकत्वं कुतो न ? अत्र भाष्यकार इमं समाधिमाह-द्वे ह्यत्र कर्मणी । उपमानकर्म उपमेयकर्म च । उपमानकर्म अन्तर्भूतम् । उपमेयकर्मणा सकर्मको भवति । ६२. प्रीङ् प्रीतावकर्मकः । दिवादयोऽकर्मकाः । अल्प एव सकर्मकाः । अस्मासु प्रीतिमान् भवति (देवराजः) इत्यर्थः । ६३. प्रीञ् तपणे कान्तौ च । क्रैयादिको नित्यं सकर्मकः प्रीणनेऽर्थे । सकर्मकत्वाकर्मकत्वे प्रयोगतोऽनुसर्तव्ये ।