पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सकर्मकत्वाकर्मकाधिकार: १६९


४९. नाम्नैव शिष्टवति रुग्णजने किमाश्वासकेन भिषग्जल्पितेन । ५०. अल्पपरिवारोऽभीतवन्निति मृगयां राजा । ५१. चिरं मृगयां क्रीडति स राजा, नावेक्षते स्वस्य हितं न च प्रजा- नाम् । ५२. नवनीतं चोरयित्वा मातुरपह्नुते कृष्णः । ५३. दुनोति पातकं स्मृत्वा पितुर्मम महात्मनः (देवीभा० ८।३।८६) । ५४. वाता वान्ति दिशो दश । ५५. मा न श्लिक्षः प्रियं प्रिये (भट्टि० ६।१६) ५६, प्राज्वालीत्सत्प्रदीपान् (मोह० ४।१)। ५७. पुप्लोष कामज्वरे (मोह० ५।१८) । . ४९. शिष असर्वोपयोग इति चुरादिष्वाधृषीयः । अयं सकर्मक इत्य- सन्देहः । तेन कर्मणि क्त: प्रयोक्तव्यो न कर्तरि क्तवतुः । ५०. मृगयामुद्दिश्य निर्यातीत्यर्थः । अन्तरतिक्रियान्तरा अपि धातवः प्रयुज्यन्त इत्युदाहरणैरन्यत्र स्पष्टीकृतम् । ५१. अत्रापि पूर्व एव हेतुरिति साधुत्वमनभिशङ्कनीयम् । ५२. ह्नुङ् अपनयन इति धातुः । अपनयतिः सकर्मकः, तेन ह्नुरपि । आत्मानमिति शेषो बोध्यः । ५३. टुदु उपतापे स्वादिः सकर्मकः । दूङ् परितापे दिवादिरकर्मकः । स-प्रयोक्तव्यः । दूये इति वक्तव्यम् । ५४. गत्यर्थका अविवक्षितकर्माण एवाकर्मका भवन्ति, उत्सर्गस्तु सकर्मका इति वातिरिह सकर्मकः । ५५. श्लिषिरिह सकर्मकः प्रयुक्तः । काशिकायां गत्यर्थाकर्मकेति सूत्रे त्वकर्मकः स्थितः । आङ्पूर्वस्तु प्रयोक्तव्यः । सोपसर्गकः सकर्मको भवति । ५६. प्राज्वालीत्सत्प्रदीपान् इति दुष्टो न्यास: । ज्वल दीप्तावकर्मकः । धात्वर्थनिर्देश एवाकर्मकत्वस्य गमकः, व्यवहारश्च । ५७. पुप्लोष कामज्वरे । अयमपि सदोषो न्यासः। प्लुष दाह इति धातुः । दाहश्च भस्मीकरणं न तु भस्मीभवनम् ।