१६८ शम्दापशब्दविवेके
४२. यः परान्मीनाति१ स स्वयं किं न मीयते२ ?
४३. असन्तोऽपि सद्भिः सह संधृष्य शक्ता आत्मानमुन्नमयितुम् ।
४४. यदा तमोगुण उद्रिणक्ति३ तदा सत्त्वं रजश्च तिरोभवतः ।
४५. ४कालिकमिदं सदनं सम्प्रति विशीर्णम् इति पुननिर्माणमर्हति ।
४६. विपुलेयं भूर्नानामतैर्नावृत्तैर्नाभाषैर्मनुष्यरुषितेति महद्वै-
चित्र्यम् ।
४७. न हि मलयचन्दनतरुः परशुप्रहतः स्रवेत् पूयम् ।
४८. संसृज्यते घृतं शर्करयाऽभ्यागतं भोजयिष्यामीति ।
४२. मीञ् हिंसायां क्र्यादिः सकर्मकः, मीङ् हिंसायां दिवादिरकर्मक
इति व्याकरणचन्द्रोदये सप्रमाणं निदर्शितम् । तेन सर्वथा निर्दु-
ष्टोऽयं न्यासः।
४३. घृषु संघर्षे इति भ्वादि: सकर्मकः । धृष्टं घृष्टं पुनरपि पुनश्-
चन्दनं चारुगन्धम् इत्यादिषु दर्शनात् । स्पर्धार्थे त्वकर्मको दृष्टः ।
तथा च कालिदासे प्रयोगः-प्रयोगनिपुणः प्रयोक्तृभिः संजघर्ष स
मित्रसंनिधौ (रधु० १३।३६)।
४४. रिचिर् विरेचने, रिच वियोजनसंपर्चनयोरिति धातू उभावपि
सकर्मकौ । तेन कर्मकर्तरि उद्रिच्यत इति वक्तव्यम् । उद्रिक्तो-
ऽभ्यधिको भवतीत्यर्थः ।
४५. शूञ् हिंसायामिति प्रायेण सकर्मकः । शृणाति हिनस्तीति
शरुरिति व्युत्पत्तेः। शरारुर्घातुको हिंस्र इति कोषाच्च ।
कविभिस्तु क्वचित्क्वचिदकर्मकत्वेनापि प्रयुक्त: । तथा च
विशरारोर्जटाकलापस्येति श्रीहर्षचरिते । स्वयं विशीर्णद्रुमपर्ण-
वृत्तितेति कुमारे । तेन सदनं विशीर्णमिति न दूष्यम् । कर्मकर्तरि
वा शृणातेः प्रयोगो द्रष्टव्यः ।
४६. वस निवासेऽकर्मकः । तेन सकर्मकत्वलाभायाधिपूर्वः प्रयोक्तव्यः ।
अध्युषितेति वक्तव्यम् ।
४७. स्रवतिरत्रान्तीतण्यर्थो वेदितव्यः । स्रावयतीत्यर्थः । बहुलं चैष
एवं प्रयुज्यत इति वाग्व्यवहारादर्शे प्रपञ्चितम् ।
४८. सृज विसर्गे तुदादि: सकर्मको दिवादिरकर्मकः । अत्र तुदादेः
सम्पूर्वस्य सृजेः कर्मणि लटि प्रयोगो बोध्यः ।१. मीञ् हिंसायाम् । २. मीङ् हिंसायां दिवादिः ।
३. उद्रिक्तोऽधिको भवतीत्यर्थो विवक्षितः। ४. प्रकृष्टकालं चिरन्तनम् ।