पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सकर्मकत्वाकमकत्वाधिकार: १६७


३६. अत्रावधत्त भोश्छात्रा: श्वो ये काले न संनिघास्यन्ते ते दण्ड- यिष्यन्ते । ३७. पूर्वे हि दीनेषु दुर्गतेषु च सविशेषमनुचकम्पिरे । ३८. शिशू पितुरङ्कमुपविष्टौ किमपि वाङ्मनसागोचरं सुखं निर्विशतः । ३९. विप्रवत्स्यता तनयेनाश्लिष्यच्छोकपर्याकुला साश्रुनेत्राऽम्बा, मुक्त- कण्ठं चारोदीत् । ४०. इमे रथचर्यायां चिरमभ्यस्ता अश्वारोहेण चाद्वितीयाः । ४१. अयं ते क्लेशानुभवो गच्छता कालेन लोप्स्यति । न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिर इति (४।८२) । तेन कण्डूल मे पादतलमिति वक्तव्यम् । ३६. अवपूर्वो धाञ् प्रायेणाकर्मकः कविप्रयोगेषु दृष्टः । अवधत्त अव- धानं दत्तेत्यर्थः । अधो निधाने तु सकर्मकः । समीपीभवनेऽर्थे संनिधाञप्यकर्मकः । तथा च बालरामायणे प्रयोगः-वाङ्मतिर्मे देवता सन्निधत्तामिति । अर्थान्तरे तु सकर्मकः । (दृष्टि) पुनः सहस्रार्चिषि संनिधत्ते (रघु० १३।४४) इत्यत्र यथा । ३७. अनुपूर्वः कपि चलन इति धातुः कवि-प्रयोगेषु सकर्मको दृष्टः । तेन दीनान् दुर्गतान् इति वक्तव्यम् । कामं महाभारते सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे (आश्व० २०१०) इत्यत्राकर्मकोपि विलोक्यते । ३८. उपपूर्वो विशतिरकर्मक आसने वर्तमानः । तेन पितुरङ्के उप- विष्टाविति वाच्यम् । प्रायमुपविशतीत्यादिषु सकर्मकोपि । ३६. आङ्पूर्वः श्लिषिः सकर्मकः, केवलस्त्वकर्मक इति पूर्वमवोचाम । स्पष्टं चैतद् गत्यर्थाकर्मकश्लिषशीङ् इति सूत्रे वृत्तौ । तेन विप्रव- त्स्यन्तं तनयमाश्लिष्यदित्येव शोभनं वचः । ४०. अभ्यस्यतिः सकर्मकः, यथा केवलोऽस्यतिः । रोमन्थमभ्यस्यती- त्यादिषु दर्शनात् । तेन चिरमभ्यस्त रथचर्या इति वा समासेन, चिरं रथचर्यामभ्यस्तवन्त इति वा व्यासेन वक्तव्यम् ४१. लुप्लृ छेदन इति सकर्मकः । अर्थनिर्देश एव तथात्वस्य ज्ञापकः । तेन कर्मकर्तरि लोप्स्यत इति वक्तव्यम् ।