१३३ शब्दापशब्दबिवेके
३२. अतृणे पतितो वह्निः स्वयमेवोपशाम्यति, न च समिन्धितुं
शक्नोति ।
३३. वत्स ! आगमयस्व तावत्, रध्यत्योदनः ।
३४. बहवो रक्षापुरुषा युगपदेव लुण्टाकस्य शरण१ आक्रमिषुः ।
३५. कण्डूयते मे पादतलम् । ब्रूहि किमिवाऽस्य फलं भविष्यति ।
शब्दत आह। अकर्मकत्वे तावदल्पे शिष्टप्रयोगाः। तेन कर्मणि
मुच्येमहीति वक्तव्यम् । बाढं मोक्षते मोक्तुमिच्छतीति विग्रह-
वाक्येऽकर्मकत्वं दृष्टम् । इयं सा मोक्षमारणानामजिह्मा राज-
पद्धतिः (वा० प०१।१६) इति हर्युक्तौ च ।
३२. ञिइन्धी दीप्ताविति रुधादिषु पठ्यते । अर्थनिर्देशादयमकर्मक
इति शक्यमन्यथाध्यवसातुम् । धातुपाठेऽर्थनिर्देशो यत्र तत्र
परिष्कारमहतीति व्याकरणचन्द्रोदये तृतीये खण्डेऽस्माभिरुदा-
हृतम् । प्रयोगेऽयं धातुनित्यं सकर्मकः । तमु त्वा पाथ्यो वृषा
समोघे दस्युहन्तमम् (ऋ०६।१६।१५) । तमु त्वा दध्यङ्ङृषिः
पुत्त्र ईधे अथर्वण (ऋ० ६।१६।१४) इत्यादिषु भ्राष्ट्रमिन्धः,
अग्निमिन्ध इत्यादिषु च तथा दर्शनात् । तेन प्रकृते प्रज्वलितुं
दीपितुमिति वा वक्तव्यम् । श्यन्विकरणस्तु सूत्रेष्वकर्मकोपि दृष्टः
तेनेध्यस्व (आश्व० गृ० १।१०।१२) इत्यत्र । कर्मकर्तरि वा प्रयोगो
द्रष्टव्यः ।
३३. आगमयस्वेत्यस्य मा त्वरिष्ठा इत्यर्थः । तेनास्याकर्मकताऽसन्दि-
ग्धा । आगमेः क्षमायामिति तङ् । रध हिंसासंराद्धयोरिति
दिवादिः संराद्धावर्थेऽकर्मकः ।
३४. शरणमाक्रमिषुरित्येव साधु । शरणं गृहम् । आक्रमणमास्कन्द-
नमित्यनर्थान्तरम् । तेनात्राङ् पूर्व: क्रमिः सकर्मकः । अन्यत्रो-
र्ध्वगमनेऽर्थे वर्तमानस्त्वकर्मको दृष्ट: । आक्रमते सूर्यः ।
३५. कण्डूञ् गात्रविघर्षण इति कण्ड्वादिः । अत्र धात्वर्थेन कर्मण
उपसंग्रहादकर्मकोऽयं धातुरिति जायते भ्रमः । परमयं सकर्मक
इत्यत्र कवीनां प्रयोगाः प्रमाणम् । तथा च कविकुलपतिः कालि-
दासः प्रायुङ्क्त-कण्डूयमानेन कटं कदाचित् (रघौ २६३७) ।
मृगीमकण्डूयत कृष्णसारः (कु०३।३६)शृङ्गे कृष्णमृगस्य वामनयनं
कण्डूयमानां मृगीम् (६।१७) इति च शाकुन्तले । मनुस्मृतावपि-१. गृहे ।