पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सकर्मकत्वाकर्मकत्माधिकार: १६५


२५. तदानीमार्यावर्ते सौगता भिक्षवो व्यानशिरे१, विहारांश्च यत्र तत्र निर्ममिरे । २६. इह भारते संन्यासमार्गः कदा प्रारभतेति सहसा वक्तुं न पारयामः । २७. भूविचाले कदाचिच्छिखरिशिखराण्यपि भङ्क्त्वा निपतन्ति । २८. ये महात्मभिरपि समं विरुन्धन्ति विरुन्धन्ति ते आयतिकं२ स्वमभ्युदयम्। २९. येन प्रदेशेन प्रवणेन३ नद्यामवतरति सोऽवतार इति वा तीर्थ- मिति वोच्यते । ३०. यष्टिभिर्लगुडै: पाषाणैश्च भायिता: शाखामृगा वृशेष्वारोहन्ति सद्यः । ३१. दण्डात्कथं नाम मुञ्चेमेति मृगयन्ते हेतूनागस्विनः । २५. अशू व्याप्ताविति धातुः सकर्मको व्याप्यस्य कर्मणोऽपेक्षितत्वात् । तेनार्यावर्तमिति वक्तव्यम् । २६. रभ राभस्य इति नित्यं सकर्मकः । तेन कर्मणि प्रारभ्यतेति साधु स्यात् । २७. भजो आमर्दन इति धातुः । अस्यार्थनिर्देश एव तथाऽभूद्यथास्य सकर्मकत्वे संदेह एव नोदेति । तेन भग्ना भूत्वेति वक्तव्यम् । २८. रुधिर् आवरण इति नित्यं सकर्मकः । तेन महात्मनो विरुन्ध- न्तीत्येव साधु । विरोधशब्दप्रयोगे तु साहचर्यमपि विवक्षन्ति व्यवहारविदः । समुन्नयन्भूतिमनार्यसङ्गमाद वरं विरोधोपि समं महात्मभिः (कि०) इत्यत्र यया । २६. अवतरतेर्गत्यर्थत्वात्सकर्मकत्वमभ्युपेयते । तथा सत्यप्यधिकरण. विवक्षया नद्यामिति साधु स्यादिति चेन्मैवम् । लौकिकी हि विवक्षा प्रभवति न प्रायोक्त्री । लोकश्चात्र कर्मैव विवक्षति नाधिकरणमिति कविप्रयोगेषु व्यक्तम् । तेन नदीमवतरतीति वक्तव्यम् । ३०. वृक्षानारोहन्ति इत्येव साधु । उक्तो हेतुः । ३१. मुच्लृ मोक्षणे तुदादिः । मोक्षयति: सकर्मकः । मोक्षयिष्यामि मा शुच इत्यादिप्रयोगदर्शनात् । तेन मुञ्चतिरपि सकर्मकः । मुचो- कर्मकस्य गुणो वा (७।४।५७) इति सूत्रं तु मुचेरकर्मकतामपि१. व्याप्नुवन्ति स्म । २. आयतौ भवम् । आयतिरुत्तरकालः । २. निम्नेन । ४. आगोऽपरधः, तद्वन्तः ।