१६४ शब्दापशब्दविवेके
१८. योऽयं हव्यवाहने हव्यप्रक्षेपः क्रियत स शूक्ष्मीभूय विस्तीर्य१ च
मातरिश्वानं व्यश्नुते ।
१९. न हि सुनिपुणोऽपि स्वस्कन्धे आरोढुं क्षमः ।
२०. तस्माद्युग्मासु पुत्त्रार्थी संविशे२ दातवे स्त्रियम् । (मनु० ३।४८) ।
२१. ये ब्रह्मचर्यं चरन्ति ते ब्रह्मवर्चसेन संयुवन्ति ।३
२२. वृक्षशाखास्ववलम्बमानानि वल्कवासांसि४ सूचयन्त्याश्रमपदमे-
तदिति ।
२३. अवलम्बस्व मां प्रभो ! त्वामेवाहमवलम्बे ।
२४. स्वकं गेहकं विहाय नदीकूलमुपशेषे । किं कलत्रेण कलहायितो-
ऽसि?
१८. स्तृञ् आच्छादने । अर्थनिर्देशादेवायं सकर्मकः । तेन विस्तीर्णो
भूत्वेत्यादि वक्तव्यम् ।
१९. रुह बीजजन्मनीति भ्वादिरकर्मकः । आङ्पूर्वस्तु नित्यं सकर्मको-
ऽर्थान्तरे वृत्तेः । तेन स्कन्धमारोढुमिति वक्तव्यम् ।
२०. स्वापार्थः संविशतिरकर्मको न त्वर्थान्तरे वर्तमानोऽपि । प्रकृते
च (तया) संप्रयुज्येत ताँ गच्छेदित्यर्थः । तेन स्त्रियमिति कर्म
युज्यते ।
२१. यु.मिश्रणाऽमिश्रणयोरिति यौति: प्रायेण सकर्मकः । तेनात्मान-
मिति शेषोऽत्र बोध्यः । वेदे त्वकर्मकोऽपि यौतिर्दृष्टः । तथा च
बह्वृचाः पठन्ति-अधा स वीरैर्दशभिर्वियूयाः (ऋ० ७.१०४।१५)
इति ।
२२. रबि लबि अबि शब्दे । लबि अवस्रंसने चेति धातुपाठः । तेना-
कर्मकोऽयमिति मुक्तसंशयं शक्यं वक्तुम् । तेन प्रकृतेऽदोषः ।
२३. अत्रावपूर्वो लबिर्धारण प्राश्रयणे च वर्तत इति युज्यतेऽस्य सक-
मकता ।
२४. शीङ् स्वप्न इत्यकर्मकः, उपोपसृष्टस्तु सकर्मको भवतीत्यत्र
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि (१०।१८।८)
इत्यृक् प्रमाणम् ।१. विस्तीर्णो भूत्वेति विवक्षितम् । २. सह शयीत । ३ संयुञ्जन्ति ।
४. त्वग्वस्त्राणि ।