पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सकर्मकत्वाकर्मकत्वाधिकारः १६३


११. किं ते स्वादन्तेऽमी मोदका आहोस्विन्न । मह्यं तु बहुतरं स्वदन्ते । १२. इयं हि संस्कृतं नाम दैवी वाक् । अनया वयमुपजीवामः प्रतिष्ठां च लोकेऽधिगच्छामः । १३. पुरा किल पराबभूविरेऽसुराः सुरैः । प्रतिमानो हि तेषां पराभवे हेतुरुच्यते । १४. देवदत्तायेक्षते दैवं गर्गः । १५. ततः प्राप्ते वैजनने मासि राज्ञी पुत्त्रमजायत । १६. लुलपेप वर्णभेदः, सर्वं च संकुलमिव बभूव । १७. ते महर्षयो वर्णनामाश्रमाणां च धर्मानादौ शिशिक्षिरे सुखं लोकयात्रां निर्वहन्तु लोका इति । ११. स्वाद आस्वादन इति नित्यं सकर्मकः । स्वदिरप्यास्वादनेऽनुभवे सकर्मकः, रुचावकर्मक इति दीक्षितः । तेन पूर्ववाक्येऽपि स्वदन्त इत्येव प्रयोज्यम् । १२. जीव प्राणधारण इति धात्वर्थेन कर्मण उपसंग्रहादकर्मकः, उपसर्गवशात्तु सकर्मको भवति, अर्थान्तरं चार्पयति । उपजीवन- माश्रयणमित्यर्थान्तरम् । तेन इमां वयमुपजीवाम इत्येव साधु । १३. परापूर्वो भवतरिकर्मकः प्रायेण पराजयप्राप्तौ विनाशे च वर्तते । तथा च भाष्यप्रयोगः-तेऽसुरा हेलयो हेलय इति कुर्वन्त पराबभूवुरिति । परिपूर्वस्तु नियमेन सकर्मकः । १४. राधीक्ष्योर्यस्य विप्रश्न इत्यत्र ईक्षतिर्दैवपर्यालोचने वर्तते इति धात्वर्थेन कर्मणो देवस्योपसंग्रहादकर्मकः । तेन वाक्ये देवमिति न प्रयोक्तव्यम् । १५. जनी प्रादुर्भाव इत्यकर्मको धातुः । तेन पुत्रमजनयत् इति वाच्यम्। पुत्त्रं व्यजायतेति वा वाच्यम् । अत्र शिष्टानुग्रहोऽस्तीति नास्या- साधुत्वमतिशङ्कनीयम् । अन्तर्भावितण्यर्थोऽयमिति व्याख्येयम् । १६. लुप्लृ च्छेदन इति तुदादिरर्थनिर्देशादेव व्यक्तं सकर्मकः । तेन कर्मणि लुलुपे इति वा वाच्यं ननाशेति वा प्रयोक्तव्यम् । १७. शिक्ष विद्योपादाने सकर्मकः । प्रकृते प्रयोजकव्यापारोऽपेक्षित इति णिचि शिक्षयामासुरिति पठनीयम् ।