पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६२ शब्दापशब्दविवेके


५. अतिमात्रं स्निह्यत्यम्बा शिशुकम् । नित्यं च शङ्कते माऽस्यानिष्टो- पनिपातो भूत् । ६. स पापो यः परकीयमर्थं गृध्यति । गर्धो हि पापस्य मूलम् । ७. यत्र वातो नेङ्गति तत्र तरवो न धुन्वन्ति । ८. प्रीता: प्रजाश्च सम्प्रेक्ष्य प्रीणाति परमेश्वरः । ९. निरायुधेषु दुर्बलेष्ववस्कन्दन्नरो राध्यति नरकाय । १०. अथ केन वृत्तिमकल्पयथा इति गुरुणाऽनुयुक्त१ उपमन्युर्गवां पीत- शेषेण पयसेति प्रत्याह । ५. ष्णिह प्रीताविति दिवादिः । प्रीतिरिति प्रीङ: क्तिनि रूपम् । प्रीङयमकर्मक इति वितत्य निदर्शितम् । तेन स्निह्यतिरप्यकर्मक एवेति व्यवस्थितम् । तस्माच्छिशुक इति सप्तमीनिर्देशः साधुः । ६. गृधु अभिकाङ्क्षायामित्यर्थनिर्देशो भ्रमकः । शिष्टव्यवहारेऽ कर्मकोऽयं धातुरिति वाग्व्यवहारादर्श न्यक्षेण निदर्शितम् । तेन परकीयेऽर्थे गृध्यतीति वक्तव्यम् । ७. धुञ् कम्पने, स्वरतिसूतीत्यादिसूत्राज्ञापकादीर्घान्तोऽपि स्वादिरेष धातुः । दीर्धान्तश्च तुदादौ यादौ चुरादौ च पठ्यते । सर्वत्र चायं सकर्मक इति धुनोति चम्पकवनानि धुनोत्यशोक चूतं धुनाति धुवति स्फुटितातिमुक्तम् । वायुविधनयति चम्पक- पुष्परेणून् यत्कानने धवति चन्दनमञ्जरीश्च ।। इति कविरहस्य- पद्यात् स्पष्टम् । अर्थनिर्देशे कम्पनमिति कम्पयतेर्ल्युटि रूपं द्रष्टव्यम् । तेन तरवो न कम्पन्ते न चलन्तीति वा वक्तव्यम् । ८. प्रीञ् तर्पण इति क्यादिः सकर्मकः । प्रोन तृप्ताविति नोक्तम् । अत एव इगुपधज्ञाप्रीकिरः क इत्यत्र प्रीणातीति प्रिय इति प्रीञो व्युत्पत्तिर्दर्शिता न प्रीङः । तेन प्रीयत इति वाच्यम् । ६. स्कन्दिर् गतिशोषणयोरिति भूवादिरकर्मक उपसर्गवशादर्थान्तरे वर्तमानः सकर्मको भवति । अवपूर्वोऽयं सकर्मक इति विशिपति- पदिस्कन्दा व्याप्यमानासेव्यमानयोरिति सूत्रे वृत्तौ गेहं गेहम- वस्कन्दमास्त इत्युदाहरणात्स्पष्टम् । तथा च पुरीमवस्कन्द लुनीहि नन्दनमित्यादिः (शिशु० १।५१) सिध्यति । १०. कृपू सामर्थे इत्यकर्मकः तेन णिन्सहकारेण कल्पयिष्यसीति वक्तव्यम् ।१ पृष्टः ।