पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सकर्मकत्वाकर्मकत्वाधिकारः १६१


४६. ततोऽहं "चिच्छेद सायुधान् राजन् शतशोऽथ सहस्रशः (भा० वन० १७०।१४)। ४६. छेदने चित्तविक्षेपादिना पारोक्ष्यं नास्तीति लिटोऽप्रसङ्गः । यत्तु अजानतैव एतन्मया कृतमिति शत्रूणापकर्षः सूचित इति नीलकण्ठ आह तदपि वार्तम् । न ह्यसौ च्छेदमपजानीते, द्विष- त्सामर्थ्य मेवावजानाति । तदवजानन् द्विषतश्चिच्छेद इति नील- कण्ठोक्त्यभिप्रायात् । इति लकारार्थविवेचनम् । सकर्मकत्वाकर्मकत्वाधिकारः पञ्चमः १. अथ केन कालेन चलित१स्त्वयैष पन्थाः ? २. ये गतं रुदन्ति ते सततं रुदन्ति । ३. परकीयमर्थं लुभ्यन्नात्मनः पातित्यमेव साधयसि केवलम् । ४. कदा मां पुनर्मेलिष्यसि । कामो मे न त्वं चिरयेः । १. चल कम्पने इति भ्वादिषु, चल विलसने इति तुदादिषु पठ्यते । तेनार्थानुरोधादुभयोऽपि धातुरकर्मकः । तथा च शिष्टव्यवहारः । तेन गतः, अतिक्रान्त इति वा वक्तव्यम् । २. रुदिर् अश्रुविमोचन इत्यर्थ निर्देशे कर्मण उपसंग्रहादकर्मको धातुः, तथापि धात्वन्तरान्तर्णयात्सकर्मको भवति । तथा च भट्टौ प्रयोग:--रोदिम्यनाथमात्मानम् (१८।३०) इति । प्रकृते गतं चिन्तयन्तो रुदन्तीत्यर्थः । अनुशोचन्तीति भावः । ३. लुभ गार्ध्ये इति दिवादिषु पठ्यते । शिष्टव्यवहारेऽकर्मकोऽयमिति दर्शितमन्यत्र विस्तरेण । तेन परकीयेऽर्थे इति सप्तमी प्रयोक्तव्या । ४. मिल श्लेषण इति तौदादिकः । श्लेषणमिति श्लिषेर्ल्युटि रूपम् । श्लिषिश्चाकर्मक इत्यभ्युपगमः। तेन मिलतिरप्यकर्मक एवेति स्थितम् । तस्मान्मया सह मेलिष्यसीत्येवं वाच्यम्।१. अतिक्रान्त इत्यर्थो विवक्षितः ।