१६० शन्दापशब्दविवेके
४०. तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः (अनर्घ० २।८०)।
४१. न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधः (रघौ
८।४४)।
४२. कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिम्भरिः ।
४३. परिघोरुभुजानाह हसन्ती स्वागतं कपीन् (भट्टौ)।
४४. नहि कश्चिदन्त्यजोऽद्यापि प्रविवेश निषिद्धान्त्यजप्रवेशानि
देवतायतनानि ।
४५. बहु जगद पुरस्तात्तस्य मत्ता किलाऽहम् (शिशु० ११।३९) ।
४६. सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ।
४७. व्यातेने किरणावलीमुदयनः ।
४८. ब्रह्मा वा लिखताल्लाटफलके कृच्छ्रामवस्थां दृढम् (करुणा०
५९)।
४०. अयमपि लृट्प्रयोगः शिष्टैरभ्यनुज्ञातोऽशिष्टोऽपि शास्त्रेणेति
वाग्व्यवहरादर्श निर्णीतम् ।
४१. अयमपि पूर्वेण तुल्ययोगक्षेम इति न पृथग्विचार्यते ।
४२. इदमा निर्देशात् । संनिहितः कालोऽपरोक्षश्चेति लुङो विषयः ।
आगमद् इति वक्तव्यम्।
४३. वर्तमाने ब्रुव आहादेशो विहितः । अत्र च भूतकालविषया क्रिये-
त्यस्थाने लट्प्र योगः । कवयश्च बहुशः प्रयुञ्जते । तत्र वर्तमानता-
ध्यासेन व्याख्येयम् । अन्यथा स्मशब्दोऽधिकः प्रयोक्तव्यः ।
४४. अद्यापीत्युक्तेर्नायं लिटो विषयः । तेन प्रविशतीति वक्तव्यम्,
प्राविक्षदिति वा ।
४५. चित्तविक्षेपादिनापि पारोक्ष्यं भवतीति लिट्प्रयोगः सर्वथोप-
पन्न: । किलेति वार्तायाम् । तथा चोत्तरार्धे विदितमिति सखिभ्य
इति श्रूयते ।
४६. माङि लुङिति सर्वलकारापवादभूतेन लुङा भवितव्यम् ।
४७. आत्मकृतिमधिकृत्याह उदयनाचार्य:- व्यातेने किरणावलीमुदयन
इति । किरणावलीप्रणयनेनैककालस्योदयनस्य तत्प्रणयनक्रिया
नानद्यतनी न च परोक्षा (ऋते चित्तविक्षेपात्) । तेन व्यातत
'व्यातनिष्टेति वा वक्तव्यम् ।
४८. लिखतादित्याशिषि तातङ्स्थाने । आशीरर्थस्याविवक्षितत्वात् ।
-