लकाराधिकारः १५९
३१. यदि वर्षसहस्रं जीवेयं तदा पुत्त्रशतं जनयेयम ।
३२. गा स्म सीमन्तिनी काचिज्जनयेत्पुत्त्रमीदृशम् (रा०)।
३३. अथाहं प्रसन्नस्तं निजगाद साधो बहूपकृतोऽस्मि, नाहं तेऽनुग्रहं
विस्मरिष्यामि ।
३४. वेलेयं यत्पाठालयं गच्छेम ।
३५. तत्र समये तादृशं व्यवसायमनुसरन्कश्चित्कथं नाम धनिकोऽभवि-
ष्यत् ।
३६. लज्जा तिरश्चां यदि चेतसि स्याद् असंशयं पर्वतराजपुत्त्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युर्वलिप्रियत्वं शिथिलं चमर्यः (कु०) ।।
३७. गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूला-
त्त्वमवालम्बिष्यथा न चेत् ॥
३८. न हि ग्रन्थकारः संमूढोऽभूत्, यत्स्वमतेन विरुद्धमलेखिष्यत् ।
३९. प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो (कु०) ।
३१. अत्रलिङ् निमिने लृङ क्रियातिपत्तावित्यनेन भविष्यति काले
लृङेव युक्तः । स्पष्टा चात्र क्रियातिपत्तिः । न वर्षसहस्रं जीवि-
ष्यामि न च पुत्त्रशतं जनयिष्यामीत्यर्थः । असम्भवात् ।
३२. स्मोत्तरे लङ् चेत्यनेन लङ् वा साधुः स्याल्लुङ् वा । मा स्म
जनयत्, मा स्म जीजनद्वेति वक्तव्यम् ।
३३. अत्र पारोक्ष्यं नास्तीति न्यगदं न्यगदिषमिति न्यगादिषमिति
वा वक्तव्यम् ।
३४. लिङ् यदीति लिङ् प्रयोगः साधुः । तुमुनोऽपवादः ।
३५. धनिको भवेदिति न सम्भाव्यत इत्यर्थात् अनवक्लृप्त्यमर्षयोर-
किंवृत्तेपि इत्यनेन लिङ् वा प्रयोज्यो लृङ् वा । अत्र नामेति सम्भा-
वनायां निपातः ।
३६. क्रियातिपत्तेरविवक्षित्तत्त्वादत्र हेतुहेतुमतोर्लिङ् साधुः । विवक्षा
हि शब्दव्युत्पत्तेः प्रधानं कारणं न वस्तुसत्ता। तदाद्याचिख्यासा-
यामिति सना ज्ञापितत्वात् ।
३७. अत्र क्रियातिपत्त्यभावाल्लुङ् प्रयोगश्चिन्त्य इति टीकाकाराः ।
३८. अत्र लिखेत्, लेखिष्यतीति वा वक्तव्यम् । उक्तपूर्वो हेतुः ।
३९. लडर्थे लुट्प्रयोगो व्यवहारानुगत इति वाग्व्यवहारादर्श लकार-
चिन्तायां वितत्य प्रतिपादितमिति तत्रैव द्रष्टव्यम् ।