पृष्ठम्:शब्दापशब्दविवेकः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ शब्दापशन्दविवेके


२५. अरुणद् यवनः साकेतमिति भाष्यकारः स्माह । तत्र लङ् प्रयोगः किंकृतः। २६. अद्य श्वो वा गन्तास्मि । अवशिष्यते प्रस्थानसंभार: कर्तुम् । २७. अद्य ह्यो वा प्रातः शाकमभुञ्ज्महीति न सुष्ठु स्मर्यते । २८. सखेऽन्यत्रमना अहमभूवम् । अन्यथा सभाजनीयं त्वां कथं नास- भाजयिष्यम् । २९. येषां कुसुमानामामोदो न जाने कियन्ति दिवसानि दिशोऽवास- यिष्यत् तानि प्रसाधनरसिका अकाल एवावचिन्वन्ति । ३०. कर्णिनी वै भूमि:, विविक्ते कथय, मा कश्चिद्रहस्यं शृणुयात् । २५. परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये लङ् वक्तव्य इत्यनेनात्र लङ् साधुः । भगवान् भाष्यकार: साकेतरोधेन लोकविज्ञातेन तुल्यकाल इति साकेतरोधो भगवतो दर्शनविषयः सन्नपि देशान्तरे वृत्तेस्तस्य परोक्षोऽभूद् इत्यर्थः । तेनोपपन्नो लङ् । २६. अनद्यतने लुट् इत्यत्रानद्यतनशब्दो बहुव्रीहिः । अविद्यमानोऽद्य- तनोऽत्र । तेन व्यामिश्रे लुण्न भवतीति अद्य वा श्वो वा गमिष्या- मीति वक्तव्यम् । २७. अनद्यतने लङ् इत्यत्राप्यनद्यतन इति बहुव्रीहिनिर्देशः। तेन व्या- मिश्रे लङ् नेति अभुक्ष्महीति लुङि वाच्यम्। २८. अत्र हेतु हेतुमद्भावो नास्तीति क्रियातिपत्तौ सत्यामपि लृङ् नोपपन्नः । कथं न सभाजयिष्य इति वक्तव्यम् । एष व्यवहारः । अत्रार्थे हेतुप्रपञ्चस्तु वाग्व्यवहारादर्श लकारचिन्तायां द्रष्टव्यः । २६. अत्रापि वाक्ययोर्हेतु हेतुमद्भावो नास्तीति क्रियातिपत्तौ गम्य- मानायामपि लृङ् दुर्लभः । वासयिष्यतीति तु वक्तव्यम् । भवि- ष्यती वासनक्रिया तत्कालं बुद्धयाऽगृहीतत्वात् । यत्रापि लृङ् प्रयुज्यते तत्रोभयोर्वाक्ययोस्तस्य प्रयोगो दृश्यते न त्वेकत्रेत्यन्यदे- तत् । ३०. माडि लुङ् इति माङ्युपपदे सर्वलकारापवादो शिष्टः सूत्र- कारेण, व्याख्यातश्च भाष्यकारेण । माशब्दोऽप्यस्ति प्रतिषेधा- र्थकः, तत्प्रयोगे लोडपि निर्बाध इत्याहुः । अर्वाक्कालानामप- प्रयोगारणां साधुत्वप्रक्लृप्तये यत्नमात्रमेतदिति वयम् ।