१५६ शब्दापशब्दविवेके
९. अपि त्वं पर्यविन्दो१ दारान्, अपि त्वं शूद्रामुदवहः । अहो अन्या-
य्यमेतत् । अहो गर्ह्यमेतत् ।
१०. योऽयं भृगुवासर आगामी तत्रायं दक्षिणाप्रीकां प्रति प्रस्थाता।
११. स यावज्जीवमर्थिभ्योऽन्नमददात्, अनाथांश्चान्वगृह्णात् ।
१२. कामो मे भवान्मद्गेहे श्वो भुङ्क्ताम् ।
१३. अहं हि धनुर्भृतां वरं देवदत्तमपि जेष्यामि हेलया, किमुतान्यान्
धनुर्धरान् ।
१४. कालोऽयं यद्भवान् दारान्कुरुताम् ।
१५. प्राप्तावसरस्त्वं धनमर्जयेः । पश्चान्निवेक्ष्यसे२ ।
१६. अहमितोऽहःसु कतिपयेषु बङ्गाञ्जगाम तत्र च चिरं बभ्राम।
९. गर्हायां लडपिजात्वोरिति सर्वलकारापवादो लडेवात्र युक्तः ।
परिविन्दसि, उद्वहसीति च वक्तव्यम् ।
१०. नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोरित्यनेनानद्यतने भविष्यति
विहितस्य लुटो निषेधाल्लृट एव साधुत्वे प्रस्थास्यत इति वक्त-
व्यम् ।
११. क्रियाप्रबन्धे क्रिया सातत्ये गम्यमानेऽनद्यतने भूते विहितस्य लङ:
प्रतिषेधाल्लुङ प्रयोज्यः । अदात्, अग्रहीत् इति च वक्तव्यम् ।
१२. कामप्रवेदनेऽकच्चितीति लिङेव साधुः । सर्वलकारापवादः । तेन
भुञ्जीतेति वक्तव्यम्।
१३. अत्र शक्नोत्यर्थोपाधिको धात्वर्थ इति शकि लिङ् चेत्यनेन
लिङि जयेयमित्येव साधु ।
१४. लिङ् यदीत्यनेन कालशब्दे उपपदे यच्छब्दे च लिङि कुर्वीतेत्येव
सुवचम् ।
१५. यदि धनार्जनस्यावसरस्तवागत इति प्राप्तकालतार्थस्तदा प्रैषा-
तिसर्गेत्यादिना लोडेव शक्यः प्रयोक्तुम् । तेन धनमर्जयेत्येवं वक्त-
व्यम् ।
१६. अत्र पारोक्ष्यं नास्तीति लिटोऽनवकाशः । अगच्छम् अभ्राम्यमिति
च वक्तव्यम् ।१. ज्यायांसं भ्रातरं परित्यज्य अविन्दः । तस्मिन्नकृतदारे सतीत्यर्थः ।
२. निवेशो विवाहः।