रूपाधिकारः १५५
लकाराधिकारश्चतुर्थः ।
१. अपि याया अपि तिष्ठेः । नाहं ते स्वातन्त्र्यमाच्छिनद्मि ।
२. अप्येतु सागरो वेलाम्, अपि वह्निः शीततां यातु न त्वहं पितु-
र्वचनमत्ययानि।
३. आश्चर्यं संस्कृतमतयो द्विजातयोऽप्येवं शास्त्रविधिमुत्सृज्य वर्तन्ते।
४. अभिजानासि१ देवदत्त शैशवे पांसुषु सहाक्रीडाव ।
५. गच्छ पुरा वर्षति देवः ! अवस्थास्यसे चेदभ्युक्षिष्येते२ ते वाससी ।
६. यदि गुरुचरणाः साम्प्रतमागच्छेयुराशंसे युक्तोऽधीयीय३ ।
७. अपि पतिष्यति जन: पतितैः समीयमानः४ ।
८. जातु त्वादृशः कुलोद्गतो जन ऋषीन्निन्दिष्यति, नावकल्प-
यामः५ ।
१. अत्रातिसर्गोऽर्थः । अतिसर्गश्च कामचाराभ्यनुज्ञानम् । तथा चापि-
रपि तत्रार्थे कर्मप्रवचनीयः प्रयुक्तः । तेन प्रैषातिसर्गप्राप्तकालेषु
कृत्याश्चेत्यनेन लोण्न्याय्यः । अपि याहि, अपि तिष्ठेत्येवं न्यासः
कार्यः ।
२. अत्र सम्भावनेलमित्यादिना लिङ् प्रयोज्यः । अपिशब्दोऽत्र सम्भा-
वनायां कर्मप्रवचनीयः । अप्यतीयात् सागरो वेलामित्याद्येव साधु ।
३. अत्र चित्रीकरणं गम्यते यच्च यत्रेत्युपपदे च न स्त इति शेषे
लुडयदावित्यनेन लुडेव साम्प्रतम् । तेन वतिष्यन्त इत्येव साधु ।
४. अभिज्ञावचने लुट् इति क्रीडिष्याव इत्येव साधु ।
५. यावत्पुरानिपातयोर्लट् इति भविष्यत्यर्थे लट्प्रयोगः साधुः ।
अत्र पुराशब्दः सन्निहितं भविष्यमाह । अन्यत्र चिरातीतमप्या-
चष्टे । तथा चामरः पठति -स्यात् प्रबन्धे चिरातीते निकटागा-
मिके पुरेति ।
६. प्राशंसावचने लिङ् इति लिङ् साधुः ।
७. अत्रापिशब्दो बाढमित्यर्थमाचष्टे । तेन उताप्योः समर्थयोलिङ्
इत्यनेन लिङ् युक्तः।
८. जातुयदोर्लिङ् इत्यनवक्लुप्त्यर्थे जातुशब्दे उपपदे लिङ व
साधुः । अनवक्तृप्तिरसम्भावनेत्यर्थान्तरम् । तेन निन्देदिति
युक्तं वक्तुम् ।
१. स्मरसि । २. अभिषिवते भविष्यतः । उक्ष सेचन इति धातुः । ३. समाहितः,
एकाग्रचित्तः । ४. संगच्छमानः । ईङ् गतौ दिवादिः । ५. संभावयामः ।
-