१५४ शब्दापशब्दविवेके
२१४. मा बध्यासं तरुण्या (नारा० ६३।६) ।
२१५. "कवलधर: कराम्बुजे ।
"बुभोजिथ त्रिदशगणैर्मुदा नुतः (नारा० ५१।९) ।
२१६. तर्षन्ति भूरि विषयाश्च न लोभपाशा: (नीति० ७५) ।
२१७. प्रकृतिप्रियकाम्यया (रा० १।१।२०)।
२१८. महापणस्थः प्रपणायते स्म (तुलसी० १।२९) ।
२१९. परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च (भा० शां० २६६।४९) ।
२२०. त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा (नारा०८५।९) ।
२१४. बध्यासमिति बन्धेः कर्मण्याशिषि लिङि रूपमपभ्रष्टम् ।
माङ् योगे लिङप्यस्थाने । शाब्दिके कविवृन्दारके तु नेदं समभा-
व्यत । मन्येऽन्यमनाः स्वमातुर्यं चिन्तयन्नेवं विन्यास्थत् । मा
भन्त्सीति तु विन्यास्यम् ।
२१५. भुजोऽनवने (१।३।५६) इत्यनेनात्मनेपदमिष्टम् । बुभुक्षे इति च
निर्दुष्टं रूपम् ।
२१६. तर्षन्ति । अन्तर्णीतण्यर्थकोत्र तृष्यतिः । रूपं तु न सिध्यति ।
२१७. अत्र परेच्छायामपि काम्यच् । वार्तिककारस्तु च्छन्दसि परेच्छा-
यामपि काम्यज् वक्तव्य इत्याह । न चेदं छन्दः । छन्दोवत्कवयः
कुर्वन्तीति समाधिमाहुः ।
२१८. प्रपणायत इति दुष्यति । स्तुत्यर्थकादेव पणेरायप्रत्ययो न
व्यवहारार्थकात् । अनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्ता-
दात्मनेपदं न । पणायति स्तौति ।
२१९ प्रणयिष्यति प्रणयं करिष्यति । प्रणयात्प्रातिपदिकात् तत्करोति
इति णिचि लुटि रूपम् । प्रणयतेस्तु लुटि प्रणेष्यतीति स्यादर्थ-
श्चासंगतः स्यात्
२ २०. क्रादिनियमादिटि सति जह्रिषे इत्येव रूपम् ।
इति रूपविवेचनम्