पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकार १५३


२०८. मौर्यां मनः प्राक्षिणौत् (मोह० ३।६) । २०९. पुण्यश्लोकान्ब्राह्मणान् सम्प्रणेमे (मोह० ४।३७) । २१०. वर्णज्येष्ठमजीज्ञपन्गुरुवरा: संबोधतां कन्यकाः (मोह० ४।२४) । २११. दर्दर्ष्टि भूपं मुनिः (मोह० २।३३) । २१२. पुत्रः शत्रवतीह जर्जरतनौ भार्याशती द्विष्टते (मोह०८।२३) । २१३. राजन् कदागमि वदस्व शिवं स्वकीयम् (मोह० ६।२०)। २०७. बंभ्रान्ति पुच्छम् । अत्र बंभ्रान्ति इत्यत्रानुनासिकान्तस्य भ्रमे- रुपधाया दीर्घो न प्राप्नोति । परतो झलादिः क्ङिन्नास्ति। बंभ्रन्तीत्येव साधु बंभ्रमीति इति वा। २०८. प्राक्षिणौदित्यपशब्दः । क्षिणु हिंसायामिति रुधादिः । क्षि हिंसा- याम् इति स्वादिः । उभयस्मात्लङि तिपि प्राक्षिणोदित्येव रूपम् तेनोतो वृद्धिर्लुकि हलीत्यस्य विषयो न । २०९. ब्राह्मणान् सम्प्रणेम इत्यत्रात्मनेपदं दुर्लभम् । न ह्यत्र कर्मकर्तरि प्रयोगः । अन्यादृश एव तस्य विषयः, नमते दारु स्वयमेवेत्यादिः । २१०. अजीज्ञपन् इत्यत्र सन्वल्लधुनीति सन्वद्भाव इत्त्वे दीर्घो लघोरि- त्यभ्यासस्य दीर्घो न । संयोगे गुरु इत्यभ्यासो गुरुः । तेन अजिज्ञ- पन्नित्येव साधु । वर्णज्येष्ठो विप्रः कन्यकाः सम्बोधताम् आका- रयत्वित्यर्थः । अयं चार्थो णिचमन्तरा न शक्यो गमयितुम् । तेन 'सम्बोधयतु' इत्येवं वक्तव्यम् । बुधयुधनशेत्यादिना णिजन्तात् परस्मैपदमेव च प्रयोक्तव्यम् । २११. 'दर्दर्ष्टि' इत्यसाधु । सृजिदृशोभल्यमकितीति लधूपधगुणाप- वादोऽमागमो विधीयते । तेन दर्द्रष्टीत्येवावदातं रूपम् । २१२. भार्याशती द्विष्टते इत्युभे अपि पदे दुष्टे। शतमिति नित्यं नपुं- सकम् । नायं द्विगुः, येन ङीप् स्यात् । द्विष्टत इत्यत्रच्छन्दोरि- रक्षिषया तकारं पदमध्ये प्रक्षिपति । अपि माषं मषं कुर्याच्छन्दो- भङ्गेत्यजेद् गिरम् इति च केषाञ्चिदुक्तिंं च प्रमाणी करोति । २१३. कदागमीत्यत्र आगमीत्यसाधु । चिणि उपधावृद्धेरकरणमेवे- हासाधुत्वम् । अनुदात्तो गमिः, तेन नोदात्तोपदेशस्येत्यनेन वृद्धि- प्रतिषेधो न । तेन आगामीत्येव प्रयोगार्हम् । वदस्वेत्यत्रात्मनेपद- मप्यसाम्प्रतम् । भासनोपसंभाषेत्यादिनाऽऽत्मनेपदमिति चेत् । न । नहि भासनोपाधिरिह विवक्षितः । विवक्षितश्चेद्धासाय स्यात् ।