१५२ शब्दापशब्दविवेके
२००. उपनामयति करोऽन्नं रसांस्तु जिह्वैव जानाति ।
२०१. मर्त्ये मय्यमृतत्वमुच्छलयताम् (करुणा० ३५) ।
२०२. तं कृष्णं तोष्टीमः (मोह० १।२३) ।
२०३. यो रसिकहृदयगो देदवीतात् स्वधाम्ना (मोह० १।२३) ।
२०४. वाणी मान्द्यतां मावतीतात् (मोह० १।२८) ।
२०५. तास्तब्धि त्रिदशालये धवलिमा (मोह० १।३७)।
२०६. मुनिभिन्नस्वान्तः "बधान प्रेमाणं नवयुवतिसङ्धेऽति मधुरे
(मोह० १।४२)।
२००. ज्वलह्वलेति सूत्रेण सोपसर्गस्य नमेर्मित्त्वविकल्पो नेति नित्यायां
मित्संज्ञायामुपनमयतीत्येव वक्तव्यम् ।
२०१. उच्छलयताम् इत्यत्र शलेर्णिचि उपधावृद्धिर्न कृता, स दोषः ।
शल गतौ इत्येष घटादिर्न । शल चलनसंचणयोरित्यपि न ।
तेनोपधाह्रस्वो न प्राप्नोति । उच्छालयतामित्येव साधु ।
२०२. तोष्टीम इति यङ्लुकि उत्तमपुरुषबहुवचने न सिध्यति । यङो
वेति ईडागमो हलि पिति सार्वधातुके विहितः । इह पित्त्वं नास्तीति
तदप्रसङ्गः ।
२०३. देदवीतात् इति स्वधाम्नेत्युक्तेर्दिवेर्यङलुकि रूपमिच्छति
कविः । यकारवकारान्तानां तूठ्भाविनां यङ्लुङ् नेतिच्छ्वोरिति
सत्रे भाष्ये ध्वनितम् । तेन दिवेर्यङ्लुकि रूपसिद्धौ न मुधाऽऽत्मा
क्लेशस्य पदमुपनेयः । अथ भाष्यमनादृत्य रूपसिद्धिरभस:,
देदवीतात् इति न सिध्यति । प्रथमं तावत् तातङि प्रत्यये ईट्
केन । अभ्यासोत्तरखण्डे दकारोत्तरवत्यकारः कथङ्कारमात्मानं
लभेत ।
२०४. मावतीतात् इति माङ् इति निषेधार्थकमुपपदमित्यसांशयिकम् ।
अवतीतात् इति कस्माद् धातोर्व्युत्पिपादयिषति कविरिति न
सुज्ञानम् ।
२०५. तास्तब्धि इति यङ्लुकि प्रथमैकवचने न सेद्धुमर्हति । स्तन्भु
इति नकारमध्यो धातुः । यङो लुकि तिपि परतो नकारस्योपधा-
भूतस्य लोपो न केनापि शास्त्रेण प्राप्नोति ।
२०६. बधान प्रेमाणम् । अबालस्याप बालस्येव कियानपि व्यामोहः
कवेः। बधानेति लोण्मध्यमैकवचने रूपम् । बबन्धेति वक्तव्ये
बधानेत्याह।