रूपाधिकारः
१९३. यं घटं करोति तमानयेत्यथ यं घटयति तमानयेति प्रयोगे कि
दुष्यति ।
१९४. मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः (भा०) ।
१९५. तर्षन्ति भूरिविषयाश्च न लोभपाशाः (भर्त ० १।७५) ।
१९६. अशीमहि वयं भिक्षामाशावासो वसीमहि (भर्तृ. ३) ।
१९७. हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोप्यवज्ञायते (भर्त ० ३।७३) ।
१९८. गति जिगीषतः पादौ रुरुहातेऽभिकामिकाम् (भा०पु० २।१०।२५) ।
१९९. मदर्थेऽरीन् विजघ्निथ (भा० पु०)।
१९३. घटशब्दो यच्छब्दव्यपेक्षः । सापेक्षाणां वृत्तिर्न, असमर्थत्वाद्
इत्यत्र णिज् दुर्लभः ।
१९४. मा दीदर इत्यस्य स्थाने मा ददर इति पाठ्यं पाणिनीयता-
लाभाय । पाणिनीया. अत्राभ्यासस्येत्त्वापवादेनात्त्वमिच्छन्ति ।
अत्स्मृदृत्वरप्रथम्रवस्तृस्पशामिति तद्विधायकं शास्त्रम् ।
१९५. तर्षयन्तीत्येव साधु । तृषिरकर्मकः । अन्तर्णीतण्यर्थत्वेऽपि
दिवादित्वादत्र श्यना भवितव्यं न शपा ।
१९६. अशू व्याप्तौ स्वादिरनुदात्तेत् । तस्मात्सार्वधातुके लिङि
'अश्नुवीमहि' इति स्यात् । व्यक्तमस्खालीदत्र कविः । यथेदं
बृहत्स्खलनं जघटे तथा ब्रूमः- आ म्नाती वेदेऽयं कविरिति तद्गत-
प्रयोगैर्वास्यतेऽस्यान्तःकरणमिति लोकेऽपि छन्दोवत्कुरुते ।
अशीमहि गाधमुत प्रतिष्ठामिति हि बाह्वृच्यम् (ऋ० ५।४७।७)।
भद्रं जीवन्तो जरणामशीमहि (ऋ१०।३७।६) इति च ।
१९७. अवज्ञायते इत्यत्र भृशादेराकृतिगणत्वात्क्यङ् बोध्यः । अवज्ञा-
शब्दोऽत्र तद्वति वर्तते यथा निद्राकरुणाकृपादयः । एवं रूपसिद्धौ
सुलभायामपि नार्थसिद्धिरिष्टा भवति । अनवज्ञोऽवज्ञावान्भवती-
त्यर्थः क्यङ्ङन्तस्य । कम्प्रत्यवज्ञावान् इति न लभ्यते । न हि
शब्दोक्तं तत् ।
१९८. जिगीषत इति गाङ् गतावित्यस्य सनि रूपमिच्छति भागवत-
कारः । न चेदं सिध्यति । सन: कित्त्वाभावादीत्वाभावः
प्राप्नोति । गाङ्कुटादिभ्य इत्यत्र इङो गाङ् आदेशो गृह्यते, तेन
सनो ङित्त्वमपि न ।
१९९. लिटि थल्युपधालोपाप्रसङ्गाद् निजघनिथेति रूपम् । इडभावे तु
निजघन्थेति ।