पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० शब्दापशब्दविवेके


१८६. अयं कदाचार इदं वैशसं सर्वं राष्ट्रमान्दूदुलत् । १८७. अयं धर्मोऽयं चाधर्म इति पूर्वैः साधु व्यवास्यत । १८८. सौहृदं दुस्त्यजं पित्रोरहाद्यः (भा० पु० ५।५।३६) । १८९. ज्ञायते घटः स्वयमेव । १६०. सूर्यश्चान्तरधीयत । १९१. तत्क्षामये त्वामहमप्रमेयम् (गीता० ११४२) । १९२. अशिश्रियत् अशिश्रयद् इत्येतयो रूपयोरेकतरं साधूभयं वेति निर्वक्तुं चेत्सहसे नूनं शाब्दिकोसि । १८६. आन्दोल इति चुरादिष्वदन्तः । अग्लोपित्वादुपधालघुत्वा- भावाद् आन्दुदोलद् इत्येव युक्तम् । १८७. व्यवास्यतेति प्रमादः । व्यवपूर्वात्स्यतेः कर्मणि लङि आदेच उपदेश इत्यात्वे धुमास्थागापाजहातिसां हलीतीत्त्वे 'व्यवासीयत' इत्येव साधु ।

१८८. अहादित्यपप्रयोगो भागवतकारस्य वाचि स्वतन्त्रस्य । लुङि अहासीदिति रूपम्, लङि चाजहादिति । १८९. जानातिः कर्तृ स्थभावको न तु कर्मस्थक्रियस्तेन कर्मवद्भावस्या- प्रसङ्गः। १६०. अन्तः पूर्वस्य धाञ उभयथा प्रयोगा दृश्यन्ते सककर्मत्वेनाकर्म- कत्वेन च । अत्र सकर्मकस्य प्रयोगः । कर्मकर्तरि प्रत्ययः, तेन न कश्चिद् दोषः । १६१. क्षमिर्मिद् अमन्तत्वात् । तेन णिचि मितां ह्रस्व इति ह्रस्वत्वे 'क्षमये' इत्येव युक्तं पश्यन्ति पाणिनीयाः । क्षाम्यतिरकर्मक: क्षमतिश्च सकर्मक इति विवेकः । अत्र पूर्वस्य ग्रहणमिति णौ कर्तु: कर्मत्वे त्वामिति द्वितीयान्तं साधु । १९२. अशिश्रियद् इति श्रिङ्ग सेवायाम् इत्यस्माल्लुङि रिमश्रिद्रुस्रुभ्यः कर्तरि चङ् इनि च्लेश्चङि द्वित्वे रूपम् । अशिश्रयद् इति श्रीमन्तं करोतीत्यर्थे श्रीमच्छब्दात्तत्करोति तदाचष्ट इति णिचि इष्ठ- वद्भावेन मतुपो लुकि लुङि चङि तिपि वृद्धावायादेश उपधाह्रस्वे द्विर्वचनेऽचीति 'श्री' इत्यस्य द्वित्वेऽभ्यासस्य ह्रस्वत्वे शुद्धं रूपम् ।