पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपाधिकारः १४९


१७७. नियमयसि विमार्गप्रस्थितानात्तदण्डः (शा० ॥८) । १७८. मङ्गलश्लोकपाठादूर्ध्वं सूत्रधारः प्रकरणं प्रास्तोत् । १७९. आ: स्वयमेवाकर्षिषताङ्गारा अनेन स्वहस्तेन । १८०. श्रीमत्पण्डितराजजगन्नाथो व्यघासीदिदम् (प्राणाभरणे)। १८१. उदगग्नेरुत्सृज्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेत त्रिःप्रमृजीत (गो० ग० १।२५) १८२ ये वीतरागाणां मुनीनां वचनामृतमाचिचामिषन्ति ते धन्याः । १८३. गर्हिते चाप्यवसाने च चेलमाचक्ष्यते बुधै: । १८४. तैः साध्यसिद्धयै ते तेऽभ्युपायाः कथं कथमप्युपालम्भिषत । १८५. आपन्नार्तिप्रशमने जननायकः श्रीलाजपतो बह्वर्थमव्ययीत् ।

१७७. नियमयसीति नियमवच्छब्दात्तत्करोतीत्यर्थे णौ इष्ठवद्भावाट्टि- लोपे रूपं बोध्यम् । यमोऽपरिवेषण इति परिवेषणादन्यत्र यमिर्मिन्न । १७८. ईडभावपक्षे उतो वृद्धिर्लुकि हलीति वृद्धया प्रास्तौदित्येव साधु । १७९. उपदेशेऽजन्तानां धातूनां हनग्रहदृशामेव च विषये स्यादिषु प्रत्ययेषु भावकर्मणोरिट् चिण्वद्भावौ विहितौ । तेन कृषस्तयोरप्राप्तिरिति लुङि सिचि अकृक्षतेति रूपम् । आङ्पूर्वस्य कृषेराकृक्षतेति । सिजभावे क्से तु बहुवचने आकृक्षन्तेति रूपं बोध्यम् । १८०. व्यधासीत् इति प्रामादिकम् । गातिस्थाधुपाभूभ्य इति सिज्लुकि व्यधादित्येव संस्कारवद् रूपम् । १८१. 'आचामेत' इत्यत्र तङ्नोचितः । प्रमृजीतेति मृज शौचालङ्कार- योरिति चौरादिकस्याधृषीयत्वाद् विकल्पेन णिचि तदभावपक्षे निरवद्यं रूपम् । १८२. आचिचमिषन्तीत्येव साधु । ष्ठिवुक्लमुचमां शिति आङि चम इति शास्त्राभ्यां शिति प्रत्यय एवोपधावृद्धेर्विधानात् । १८३. चक्षिङः ख्याञ् इत्यार्धधातुके यकि ख्याञादेशे 'आख्यायते' इत्येव वक्तव्यम् । १८४. उपपूर्वाल्लभे: कर्मणि लुङि उपालप्सतेत्येव साधु । इट् चिण्वद्- भावयोरप्राप्तेः। १८५. व्यय वित्तसमुत्सर्ग इति तस्माल्लुङि अवव्ययदिति रूपम् । अव्ययीदिति भ्वादेर्गत्यर्थकस्य रूपम् । अर्थस्तु न सङ्गच्छते।