१४८ शब्दापशब्दविवेके
१६९. अनिर्वेदः श्रियो मूलमिति पुरस्ताद् दरिदृश्यते स्म दरिदयिष्यते
च निदर्शनान्तरैः परस्तात् ।
१७०. मा यास्त मा यास्त गृहान् विमूढाः ।
गाङ्गं विहायाखिलमुक्तितीरम् (श्रीकेशवदिग्विजयसारे २४।१०) ।
१७१. वेदार्थविचिकित्साऽपाकृतये मीमांसा जगत्यवतरीत् ।
१७२ मा स्म भूम्यन्तं वदीः (मनु० ८।९९) ।
१७३. विदद्ध्वं विहितं कर्म, तेन सुखायध्वम् ।
१७४. नादिदासीददित्सीत्तु सौमुख्यात्स्वं स्वमर्थवत् (सौन्दर० २।१८)।
१७५. योऽगर्धीत्सोऽपप्तत् ।
१७६. चेष्टा व्यनेशन्नखिलास्तदास्याः (नै० ) ।
१६९. दर्शयतेर्ण्यन्तादनेकाच्वाद्यङ् दुर्लभः । तेन पुनः पुनर्दर्शयिष्यत
इत्येवं वक्तव्यम् ।
१७०. मा यास्त इत्यपशब्दः । यमरमनमातां सक् चेति शास्त्रेण सकि
सिच इटि च मा यासिष्टेति शब्दः । सिज्लोपस्याप्रसक्तेः ।
१७१. अवातारीदित्यटि कृते वृद्धौ च साधु ।
१७२. मा वादीरित्येव साधु । वदव्रजेत्यादिना नित्या वृद्धि: । नेटो-
त्यस्यापवादः।
१७३. विधद्ध्वमिति वक्तव्यम् । दधस्तथोश्चेति विहितो बश्भावो न
कृतः स दोषः । सुखायध्वमिति सुखादिभ्यः कर्तृ वेदनायामिति
क्यङि साधु ।
१७४. नाऽऽदिदासीत् इति प्रामादिकम् । आङ पूर्वाद् ददातेः सन्नान्ता-
ल्लुङि सिचि इटि आदित्सिष्टेति रूपम् । आङोदोऽनास्यविहरण
इत्यात्मनेपदनिमित्ते सन्नान्तादप्यात्मनेपदम् । अदित्सोदिति
परस्मैपदे साधु ।
१७५. पुषादित्वाद् अङि अगृधदित्येव साधु ।
१७६. नशिमन्योरलिट्येत्वं वक्तव्यमिति अत एकहल्मध्ये (६।४।१२०)
इत्यत्र वृत्तिः । तदनुरोधेन लुङि रूपं साधु । कैयटस्तु च्छन्दो-
विषयमेतदित्याह । नशिमन्योरलिट्येत्वं 'छन्दस्यमिपचोरपि' इति
श्लोकवातिके छन्दसीति पूर्वेणापि सम्बध्यत इति ।