रूपाधिकार: १४७
१६०. नूनं नाश्रद्दधद्वाक्यमेष मे भरतर्षभः (भा० द्रोण. १९०।५१) ।
१६१. मा भैः शशाङ्क मम सीधुनि नास्ति राहुः ।
१६२, हरेर्यदक्रामि पदैककेन खम् (नै० )।
१६३. नैनं वमन्तमपि वामयितुं यतेत (सुश्रुत० उत्तर० १६।१०) ।
१६४. जलमञ्जनकल्माषं मा मोक्षीराननद्विषम् (हरि० १।६६।३८)।
१६५. तं पातयां प्रथममास पपात पश्चात् (रघु० ६।६१) ।
१६६. उक्षान्प्रचक्रुर्नगरस्य मार्गान् (भट्टि० ३१५) ।
१६७. कवयामि वयामि यामि (भोजप्रबन्धे)।
१६८. उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् (हितोप०) ।
१६०. न श्रद् अदधात् इति तु पाणिनीयाः । लावस्थायामेवाडाटौ।
प्रथममट्, पश्चादुपसर्गयोग इत्यसकृत्पूर्वमवोचाम । इह तु श्रद्
इत्युपसर्गो न । किन्तहि सत्यार्थको निपातः । श्रदन्तरोरुपसर्गवद्
वृत्तिरिति श्रत उपसर्गसंज्ञा ऽतिदिश्यते । तेन तस्याट: पूर्वं
प्रयोगोऽत्यन्तमप्राप्तः।
१६१. मा भैषीरित्येव साधु । सिचो लुकोऽप्राप्तेः ।
१६२. नोदात्तोपदेशस्य मान्तस्यानाचमेरिति वृद्धिप्रतिपेधे 'अक्रमि'
इत्येव साधु ।
१६३. ग्लास्नावनुवमां चेत्यनुपसर्गस्य वमे वैकल्पिके मित्त्वे तद-
भावपक्ष वामयितुमिति साधु ।
१६४. मा मुच इत्येव साधु । लदित्वाच्च्लेरङ् ।
१६५. कृञ्चानुप्रयुज्यते लिटीत्यत्राव्यवहितस्य कृञोनुप्रयोगो व्याख्यायते
तेन व्यवहितस्य नेष्यत इति महाकवे: प्रयोगो दुःसमाधानः ।
अपप्रयोग इति नानुसृतः कविभिरुत्तरै भट्टिर्जम् ।
१६६. उक्षणमुक्षा (सेचनम्) साऽस्त्येषामित्यर्श आदित्वादच् इति
जयमङ्गलायां समाधिः । स्थितस्य गतिश्चिन्तनीयेति समाधौ
यत्नमात्रमेतत् । विस्पष्टं स्खलितमत्र कविना महाकविं रघुकार-
मनुकुर्वता । उक्षामिति कविधृतः पाठः स्यात् ।
१६७. कवयामीत्याचारक्विबन्ताल्लटि मिपि रूपम् । कविरिवाचरा-
मीत्यर्थः । कौतिकुवत्योस्तु प्रयोगे दुर्लभमेतद् रूपम् ।
१६८. कृष्णं करोतित्यर्थे तत्करोति तदाचष्ट इति णिचि कृष्णयतीत्येव
साधु । भृशादित्वाद्रूपसिद्धावपीष्टार्थलब्धिर्न ।