पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ शब्दापशब्दविवेके


१५१. यो जागार तमृचः कामयन्ते (ऋ०५।४४।५४) । १५२. यदि प्रेत्यभाव उपपत्तिभिर्न सिध्यति । मा सैत्सीत् । श्रुतिस्त्व- स्यानुग्राहिका समस्ति । १५३. तेऽयं निजोऽयं पर इति नाविदन्, तेनाहीयन्त । १५४. कश्चिद् वेदाः क्रियार्था यज्ञपरा एवामानिषत। १५५. स्वमतं दृढयति परमतं च प्रतिक्षिपति । १५६. उपनमय मे रथं यावदारोहामि । १५७. प्राज्यतेऽनेनेति प्राजनं प्रतोदः । १५८. त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः (भा० सभा० ५४।१)। १५९. या ते बुद्धिः साऽस्तु मा प्रमादी: (भा० सभा० ७५।१०) ।

१५१. दृष्टानुविधिश्छन्दसीत्यभ्यासलोपोऽविहितोऽपि साधुः । उषविदजा- गृभ्योन्यतरस्याम् इत्याम् तु न भवति अमन्त्रे लिटि तद्विधेः । १५२. षिधु संराद्धौ दिवादिषु पुषादिः । तेन लुङि अङि माङ्युपपदे मा सिधत् इत्येव साधु । १५३. सिजभ्यस्तविदिभ्यश्चेति झेर्जुसि 'अविदुः' इत्येव साधु । १५४. चिण्वदिटोरप्राप्तेः अमंसत इत्येव कर्मणि लुङि रूपम् । अज्झन्- ग्रहदृशां स विधिरुक्तः । मन्यतेन प्राप्नोति । १५५. दृढं करोतीत्यर्थे बहुलमिष्ठवच्चेति णिचि इष्ठवद्भावे च'र ऋतो हलादेर्लघोः' इति रकारे द्रढयतीत्येव साधु । १५६. उपनमयेति साधु । मित्त्वाद् ह्रस्वः । सोपसर्गस्य नमेर्नित्यं मित्त्वम् । १५७. प्रवीयतेऽनेनेति प्राजनं (प्रवयणं वा)। अजेर्व्यधञपोरिति नित्यो वीभाव आर्धधातुके, घञपोस्तु न । ल्युटि तु वा यौ' इति वीभावो वैकल्पिकः, तेन प्रवयणमपि भवति । १५८. मा द्विष इत्यपाणिनीयम् । शल इगुपधादिति च्ले: सादेशे 'मा द्विक्षः' इति रूपम् । १५६. मा प्रमद इत्येवेति पाणिनीया: । मदी हर्षे इति दिवादिषु पुषादिः । पुषादित्वादङ् ।