रूपाधिकारः
१४०. यादृशि कर्मबीजान्युप्यन्त तादृशा एव प्ररोहाः प्रादुरभवन् ।
१४१. नान्यस्मिन्स्नेहयामः, नान्यस्य श्रद्दधीमः ।
१४२. विप्रयोगचिन्ता हि पातयत्यश्रूणि रुध्नाति च क्षणं कण्ठम् ।
१४३. स्वान्तं शिष्यजनस्य नित्यमुदितं धर्मे सदा दक्षतात् ।
१४४. स सभायां किमप्यपूर्वमुपन्यास्त, न तत् प्रत्यायन् सभासदः ।
१४५. वनस्थमपि तापस्ये यस्त्वामनुविधीयते (रा० ३.१६॥३३) ।
१४६. कुतस्तेऽस्य धनस्य लब्धिरित्यभियुक्तः स किमपि नोदतरत् ।
१४७. अयि किमन्वेषसे, किं ते नष्टम् ?
१४८. ते देवा विष्णुमुपेत्य प्रार्थयामासिरे त्रायस्व नस्तारकादिति ।
१४९. जाग्रत जाग्रत भोः सखायः । नायं स्वापकालः ।
१५०. प्रसेरुर्दिक्षु सर्वासु वेदधर्मप्रचारकाः ।
१४०. आडागमे आटश्चेति वृद्धौ प्रौप्यन्तेत्येव साधु । इदं च वपेः
कर्मणि लङि रूपम् । यजादित्वात्सम्प्रसारणम् ।
१४१. स्निह्याम इति श्यनि साधु । श्रद्ददध्म इति च ।
१४२. रुधिः श्नम्विकरणो न तु श्नाविकरण इति रुणद्धीत्येव रूपम् ।
१४३. दक्ष वृद्धौ शैध्र्ये चेति भ्वादिष्वनुदात्तेत् पठितः । तेन लोटि
तुप्रत्ययस्याभावात् तातङादेशस्यासम्भवः । तेनाशिषि लिङि
दक्षिषोष्टेत्येव निरवद्यं रूपम्
१४४. उपन्यास्थत् इत्येव साधु । अस्यतेस्थुक् इति थुगागमेन भवि-
तव्यम् ।
१४५. अनुविधीयते इति । धीङ् आधारे दिवादिः । विरुपसर्गः । अनुः
कर्मप्रवचनीयः।
१४६. उत्तरतिरुत्तरवचने न प्रसिद्धः । तत्रार्थे उत्तरशब्दाण्णिच
कर्तव्यः । उच्छब्दं पृथक्कृत्वाऽटि उदतरयत् इति रूपं साध्यम् ।
१४७. एषृ गतौ भूवादिः । तस्यानुपूर्वस्य लट्यात्मनेपदे रूपमिति सर्व.
मवदातम् ।
१४८. अनुप्रयुज्यमानस्य करोतेरेवाम्प्रत्ययवदात्मनेपदविधानादस्तेरनु-
प्रयुज्यमानात्तु यथाप्राप्तं परस्मैपदे प्रार्थयामासुरति साधु ।
१४६. जागृतेत्येव साधु । ऋकारस्य रेफविधेरभावात् ।
१५०. सर्ते: प्रपूर्वाल्लिट्युसि प्रसस्रुरित्येवानवद्यं रूपम् । एत्वाभ्यास-
लोपयोरप्राप्तेः।