१४४ शब्दापशब्दविवेके
१३२. मायूरी मदयति मार्जना मनांसि (माल० १।२१) ।
१३३. मोहम्मदा अकारणमेव हिन्दूनद्विषुर्द्विषन्ति च ।
१३४. कार्तिकेयेन तारको नामासुरोऽवधि स्वास्थ्यं च दिवोऽकारि ।
१३५. भोमकान्तर्नृपगुणैः सनाथितस्त्वं चिरं चकाधि ।
१३६. भृशं रोचते शोभत इति रोरुच्यते ।
१३७. किमत्र न्याय्यम्-यङ्लुकि लुङि अबोभवोदिति अबोभूवीदिति
वा ।
१३८. पूर्वे राजन्याः स्वदेशप्रेमाग्नौ स्वप्राणांस्तृणवदजुह्वन् ।
१२९. अहं हि मध्ये मार्गं प्रसह्योपारोधिषि देवदत्तेन, तेन मे कालाति-
क्रमोऽभूत् ।
१३२. मदी हर्षग्लेपनयोर्घूटादिष्वनुद्यते। तेन मित्त्वाद्ध्रस्वे मदयतीति
साधु । मदयति हर्षयतीत्यर्थः ।
१३३. द्विषश्च (३।४।११२) इति लङो झेर्जुस वा विधत्ते । तेन अद्विषुः,
अद्विषन् इत्युभयं साधु ।
१३४. हनो वध लिङि, लुङि च, आत्मनेपदेष्वन्यतरस्यामित्यार्धधातु-
कमात्रमधिकृत्य विधिः । तेन कर्तृकर्मणोरुभयोरपि भवति ।
तस्मात् कर्मण्यपि अवधीति रूपं साधु । तथा च कालिदास-
प्रयोगः-जघान समरे दैत्यं दुर्जयं तेन चावधि (रघौ १७।५)
इति । पक्षेऽ'धानि' इति भवति ।
१३५. भाष्यकारमते चकाधि इति रूपम् । धि चेति सूत्रेण सिचः सका-
रस्य लोपो नान्यसकारस्येत्यन्ये । तन्मते 'चकाद्धि' इत्येव ।
१३६. अत्रार्थे रुचेर्यङ् नेति भाष्यम् । तत्रानभिधानं हेतुः ।
१३७. अबोभूवीत् इत्येव भुवो यङलुगन्ताल्लुङि तिपि रूपम् । गातिस्थेति
सिचों लुक् । यङो वेतीट्पक्षे गुणं वाचित्वा नित्यत्वाद्वुक् । अबो-
भवीदिति तु चिन्त्यम् । भुवो वुको नित्यत्वादिति भाष्यग्रन्थविरो-
धात् । ईडभावपक्षेऽबोभोत् इति रूपान्तरम् । अस्ति सिच (७३।
९६) इलि नित्य ईडागमस्तु न भवति, श्रूयमाणे सिचि एव तद्-'
विधेः ।
१३८. सिजभ्यस्तविदिभ्यश्चेति झेर्जुसि गुणे च 'अजुवुः' इत्येव
साधु ।
१३९. रुधेः कर्मणि लुङि इटि ‘उपारुत्सि' इत्येव साधु । इट आगमस्य
गुणस्य चाप्राप्तेः । लिङ् सिचावात्मनेपदेषु इति सिच: कित्त्वम् ।
कित्त्वाद् गुणाभावः।