रूपाधिकारः १४३
१२४. अवसितं नो नगरे कृत्यम् । सम्प्रति ग्रामं गन्तुमुपक्रमामहे ।
१२५. निशामय तदुत्पत्ति विस्तराद् गदतो मम (दुर्गा०)।
१२६. कमलवनोद्घाटनं कुर्वते ये (इति मयूरः) ।
१२७. अद्य चिरं तमुपैमीति सोऽसंशयमनुगृहिष्यति माम् ।
१२८. निषादमपि वक्षसा त्रिपथगातटेऽपीस्पृशत् ।
१२९. बहवस्तु व्युत्पत्तिविधुरा: प्रमाणपत्त्रमेव लेलिहाना परीक्षोत्तरण-
दृप्ताः ।
१३०. न शरणवाञ्छयोपपन्नं भक्तं दूरयति भक्तवत्सलो देवः ।
१३१. अत्युत्कृष्टमिदं तीर्थं भारद्वाज निशामय ।
१२४. प्रोपाभ्यां समर्थाभ्यामित्यनेन क्रम आत्मनेपदं विहितम् । तत्र
प्रक्रमत उपक्रमत इति शब्विकरणमेव क्रमिमुदाहरन्ति व्याख्या-
तारः । वा भ्राशभ्लाशेत्यादिना विकल्पेन शपः श्यनि प्रोपपूर्वस्य
क्रमेरारम्भेऽर्थे प्रयोगो भवति न वेति विद्वांसो निर्णयं ब्रुवन्तु ।
१२५. शम लक्ष आलोचने चुरादिः । नान्ये मितोऽहेताविति मित्त्वाभावे
ह्रस्वो न । धातूनामनेकार्थत्वात् श्रवणे वृत्तिः । आत्मनेपदा-
भावस्तु चिन्त्यः।
१२६. उद्घाटनमिति घट संघात इत्यस्य चुरादे रूपं न तु घट चेष्टायां
भ्वादेः । तेन घटादित्वाभावान्मित्त्वं नेति ह्रस्वो न ।
१२७. अनुग्रहीष्यतीत्येव । ग्रहोलिऽटि दीर्घ दीर्घेण ईडागमेन भवित-
व्यम् । उर्ऋत् इत्यति तु दीर्घसन्वद्भावयोः कृतयोः अपीस्पृशत्
इत्यपि साधु ।
१२९. लेलिहाना इति नियतमपशब्दः । लिहे लिंडादेशे कानचि दुर्लभो
ऽभ्यासस्य गुणः । लिहेर्यङ्लुकि शतरि लेलिहत इति स्यात् ।
यङि च लेलिह्यमाना इति रूपम् । सर्पवचनो लेलिहानशब्दो-
ऽस्त्यव्युत्पन्न इत्यन्यदेतत् ।
१३०. दूरं करोतीत्यर्थे प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चेति णिचि
इष्ठवद्भावेन दुरस्य दवादेशे दवयतीति रूपम् । स्थूलदूरयुव-
ह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुण इनि हि इष्ठादिषु
विधिः स्मृतः । बहुलग्रहणादिष्ठवद्भावो नेति समाधिः ।
१३१. शमो दर्शन इति गणसूत्रेण शाम्यतिर्दर्शनेर्थे भिन्न भवतीति
निशामयेति साधु । श्रवणे दर्शने चार्थे शमिर्निपूर्वः प्रयुज्यते ।