१४२ शब्दापशब्दविवेके
११६. परिमितसंख्या अपि तेऽपरिमितैः समग्रामयन्त । परं च
पराक्रमन्त ।
११७. ते निद्रातन्द्राभ्यामेव कालमनैषिषुः क्लेशं चान्तेऽयुः ।
११८. प्रिय सत्यव्रत ! ज्योग्जीव्या नित्यं चाभ्युदीयाः ।
११९. अयं निगमान्तविद्यालयः संस्कृतविद्यालयानां शेखरीभूतो
जाजागरीति ।
१२०. न सम्पपृच्छे गमनाय सत्वरा सखीजनम्.. (अश्वघोषः)।
१२१. शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्न: (कु. १)।
१२२. जीर्णमन्नं प्रशंसीयाद् भार्यां च गतयौवनाम् । रणात्प्रत्यागतं
शत्रुं सस्यं च गृहमागतम् ॥
१२३. अष्टमे गर्भाष्टमे वाऽब्दे ब्राह्मणमुपनयीत ।
११६. संग्राम युद्धे इति चुरादिष्वनुदात्तेत् । अस्मादेव सोपसर्गादडादि-
विधिः । तेन असंग्रामयन्तेत्येव साधु ।
११७. नयतेर्लुङि झौ 'अनैषुः' इत्येव रूपम् । लङः शाकटायनस्यैवेति
(३।४।१११) यातेर्झेर्जुस् । पक्षेऽयानिति भवत्येव ।
११८. एतेर्लिङि इति ह्रस्वेऽभ्युदिया इत्येव साधु ।
११९. जागर्तेरनेकाच्त्वाद् धातोरेकाचो हलादेः क्रियासमभिहारे यङ्
इति यङ् नैव भवति । नतरां यङ् लुक् । भृशं जागर्तीति वा, पुनः
पुनर्जागर्तीति वा वक्तव्यम् ।
१२०. सम्पपृच्छे इति कर्तरि लिट्यात्मनेपदे साधु रूपमभिमन्यतेऽश्व-
घोषः । इह प्रच्छे: सकर्मकत्वात् विदिप्रच्छिस्वरतीनामुपसंख्यानं
कर्तव्यमित्यात्मनेपदं न प्राप्नोति । अकर्मकादित्यनवत्तेः । संयो-
गान्तत्वाद् असंयोगाल्लिट् कित् इति कित्त्वं च नेति सम्प्रसारण-
मपि न । तेन प्रमाद एवायमिति प्रामाणिकाः ।
१२१. 'आस' इति अस गतिदीप्त्यादानेवित्यस्य भ्वादेः स्वरितेतो लिटि
रूपम् । न तु अस भुवि इत्यस्य । तेन न कश्चिद्दोषः ।
१२२. प्रशंसेत् इत्येव युक्तम् । शंसु स्तुताविति भ्वादिः ।
१२३. 'उपनयेत इत्येव साधु । आचार्य करणेर्थेउपाधावात्मनेपदविधा-
नात् । उपपूर्वाद् नयतेर्लिङि शपि गुणेऽयादेशे सीयुटि लिङः
सलोप इति सकारलोपे वलि लोप इति यकारलोपे उपनयेतेति
रूपम् ।५. अयुध्यन्त ।