पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ शनापशब्दविवेके


१८२. त्रपामपाकृत्य निभान्निभालय (नै०) । १८३. अयि मूढ ! प्रसिद्धमप्यस्य शब्दस्यार्थं न संविजानीषे । १८४. अपि च भट्टेः शब्दशास्त्रनैपुणी तस्य वर्णनचातुरीं वर्णसङ्- घटनां चोपस्करोति । १८५. विक्रमते स्म विक्रान्त इत्यमरोद्घाटने स्वामी । १८६. आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपा: (पञ्चत० १।८८) । १८७. कुर्वन्मेचका इव दिशो मेघः समुत्तिष्ठते (मृच्छ० १।३४) । १८८. आजध्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् (भा० द्रोण० ९१।२३) १८९. सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् (रघु० १।२६) । १६०. ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् (रा० १।१५।३) । १६१. त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति (रा० ४।१।१४०) । १६२. कस्ते न सन्तिष्ठति वाङ्निदेशे (रा० ४।३३।४१) । १८२. भल भण्डने इति चुरादिरनुदात्तेत् । प्रायेणायं निपूर्वः प्रयुज्यते तेन निभालयते इति प्रयोगः । निभालयस्वेतीह वक्तव्यम् । १८३. संविजानासीत्येव साधु । आत्मनेपदस्याप्रसङ्गात् । १८४. गन्धनावक्षेपणेत्यादिसूत्रेणात्मनेपदमिष्यते । प्रतियत्नेऽर्थे कृञ: प्रतियत्न इति सुटि उपस्कुरुत इति वक्तव्यम् । १८५ वेः पादविहरणे इति सूत्रेण पादविहरणेर्थे एवात्मनेपदं विहितम् । अत्र तु पराक्रमणमर्थ इति विक्रामतीत्येव साधु । १८६. पण व्यवहारे स्तुतौ चेति भ्वादिरात्मनेपदी । तेन विपणन्त इत्येव साधु । आयप्रत्ययस्तु स्तुतावर्थ एव भवति नान्यत्र । १८७. उद ईहायाम् इति वक्तव्यात् नात्मनेपदप्रसङ्गः । समुत्तिष्ठतीत्येव निर्दूषणं वचः । १८८. इदं दूषितं प्रागिति नात्रातिरिक्त वक्तुमर्हामः । १८९. सम्पदो विनिमयो न धात्वर्थस्येति तस्य व्यतिहाराभावात्तङो नैव प्रसङ्गः । १६०. प्रोपाभ्याम् समर्थाभ्याम् इति प्राक्रमतेति युक्तम् । प्रारभतेत्यर्थः । १६१. विपराभ्यां जेरिति विजेष्यत इति वक्तव्यम् । १९२. समवप्रविभ्यः स्थ इत्यात्मनेपदेन भवितव्यम् । समुपसर्गस्तु नेह विशेषमर्थे करोति ।