पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकारः १२५


१७४. गुरोरासनं समधितिष्ठसे । अहो अन्याय्यमेतत् । १७५. वाचिकषडिकौ न संवदेते (पा० १।१।५७ सूत्रे भाष्ये)। १७६. तमणुमात्रमात्मानमनुविद्यास्मीत्येवं सम्प्रजानीते (योग० १।३६ व्यासभाष्ये)। १७७. स एवायं नाग: सहति कलभेभ्यः परिभवम् । १७८. यथा पृथिव्यां बीजानि रत्नानि निधयो यथा । एवमात्मनि कर्माणि तिष्ठन्ति प्रसवन्ति च ॥ १७९. अथ यदात्मानं दरिद्रीकृत्याह्री भूत्वा भिक्षते य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति (बौ० ध० १।२।४।९) । १८०, याचितारश्च न: सन्तु मा च याचिष्म कञ्चन (मनौ प्रक्षिप्तः श्लोकः)। १८१. इमां किमाचामयसे न चक्षुषी (नै०) । १७४. समधितिष्ठसीत्येय साधु । समवप्रविभ्यः स्थ इत्यत्र समवप्रविभ्य इति पञ्चम्यन्तम् । तेन समोऽव्यवहितोत्तरस्मात्तिष्ठतेरात्मनेपदं न तु व्यवहितादपि । इह तु तिष्ठतिरधिशब्देन व्यवधीयते । १७५. संवदेते इति साधु । भाष्यकारवचनप्रामाण्यात् । अधिकमत्र पूर्वं (१४८ वा०) उक्तम् । १७६. सम्प्रतिभ्यामनाध्यान इत्यत्र सम्प्रतिभ्यामिति पञ्चमी । तेन प्रशब्देन व्यवधानादात्मनेपदमयुक्तम् । १७७. चक्षिङो ङित्करणाज्ज्ञापकादनुदात्तत्त्वलक्षणमात्मनेपदमनित्य- मिति समाधिमाहुः । १७८. षु प्रसवैश्वर्ययोरिति भ्वादिषु पठितः । प्रसवोऽभ्यनुज्ञानमिति विवरीतारः । स च नेहाभिप्रेतः । तेन 'प्रसूयन्ते' इति साम्प्रतं स्यात् । १७९. परिव्यवेभ्यः क्रिय इति परिपूर्वात्क्रीणातेरात्मनेपदेन भवितव्यम् । अत्र परिक्रयणं नियतकालं भृत्या स्वीकरणं न, किन्तर्हि निष्क्रयणम् सूत्रकारेणार्थविशेषो नात्मनेपदविधौ निमित्तीकृतः । १८०. याचिः स्वरितेत् । तेन कर्त्राभिप्राये क्रियाफले आत्मनेपदेन भवितव्यमिति याचिष्महीति वक्तव्यम् । १८१. निगरणचलनार्थेभ्यश्चेति परस्मैपदनियमादत्र परस्मैपदं प्रयोक्तव्यम् । निगरणमशनं भोजनमाचमनं चेति पर्यायाः ।